Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229274/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० श्रीनयविजयगणिकृता श्रीभक्तामरस्तवावचूर्णिः॥ ___ सं. विजयशीलचन्द्रसूरिः १२ पानांनी प्रतिनी फोटोकोपी उपरथी सम्पादित आ भक्तामर-स्तवनी अवचूर्णि अहीं प्रकाशित थाय छे. प्रत द्विपाठ छे, एटलेके पानांना एक भागमां मूळ स्तोत्रकाव्योनो पाठ लखेल छे, अने बाकीना भागमां अवचूणि लखेल छे. अवचूर्णिना रचयिता तथा प्रतिना लेखक गणिश्री नयविजयजी छे, ते तेनी पुष्पिका परथी स्पष्ट छे. तेमनो सत्ताकाल १७मो-१८मो शतक छे. प्रसिद्ध उपाध्याय श्रीयशोविजय गणिना तेओ गुरु हता. तेमणे पोताना समुदायना गणि मुक्तिविजयजीना अध्ययन माटे आ टीका रची छे. अवचूणिनो मुख्य उद्देश व्युत्पत्ति होय तेम जणाय छे. केमके प्रत्येक पद्यना समासवाळां पदोना समासो तेमणे आमां खोली बताव्या छे. पण ए सिवायनी बीजी बधी व्याकरणआधारित प्रक्रियामां ऊंडा ऊतर्या नथी, ते पण, आ सन्दर्भमां ध्यानार्ह छे. भक्तामर जेवं लघु काव्य अभ्यासीओ माटे व्युत्पत्तिबोध खीलववानुं मजार्नु साधन हतुं ते आ अने आवी अन्य वृत्तिओ परथी जाणी शकाय छे. आ प्रति प्रायः मित्र मुनिराज श्रीधुरन्धरविजयजी महाराजना ग्रन्थसंग्रहमां हती, अने तेमणे आ फोटा लेवानी संमति वर्षो अगाऊ आपी छे तेवू स्मरण छे. तेओनो ऋणस्वीकार करुं छु. शुद्धवंतीनगर ते राजस्थानमा ‘सोजतसिटी' तरीके जाणीतुं गाम हशे? जाणकारो प्रकाश पाडे तेवी अपेक्षा. श्रीभक्तामरस्तववृत्तिः ॥ सकलपण्डितसार्वभौम पण्डित श्री ५ श्रीलाभविजयगणिगुरुभ्यो नमः ॥ भक्ताऽमरप्रणतमौलिमणिप्रभाणामद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादावालम्बनं भवजले पततां जनानाम् ॥१॥ Page #2 -------------------------------------------------------------------------- ________________ २ अनुसन्धान ५२ यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ वृत्ति: - प्रणम्य परमानन्दप्रदं निजगुरोः क्रमम् । बालबोधकृते भक्तामरस्यार्थो निदर्श्यते ॥१॥ भक्ता० यः सं० । व्याख्या- किल इति सत्ये । तं प्रथमं जिनेन्द्रं अहमपि तोष्ये । स्तोष्ये इति क्रियापदम् । कः कर्त्ता ? अहम् । कथं ?, अपि स्तोष्ये । कं ?, जिनेन्द्रम् । किंविशिष्टं ? प्रथमं तम् । कं ? यः सुरलोकनाथैः संस्तुतः । ‘संस्तुत' इति क्रियापदम् । कैः कर्तृभिः ?। सुरलोकनाथैः। सुराणां लोकाः सुरलोकाः, सुरलोकानां नाथाः सुरलोकनाथाः, तै:-इन्द्रैः संस्तुतः । कः । य: । सुरलोकनाथैः किंलक्षणैः ?। उद्भूतबुद्धिपटुभिः । उद्भूता चासौ बुद्धिश्च उ०द्धिः० (उद्भूतबुद्धिः) । उद्भूतबुद्ध्या पटवः उ०व:.(उद्भूतबुद्धिपटवः) तै: उ०भिः० (उद्भूतबुद्धिपटुभिः) । कुत:?। सकलवाङ्मयतत्त्वबोधात् । सकलं च तद् वाङ्मयं च स०यं॰ (सकलवाङ्मयं), सकलवाङ्मयस्य तत्त्वं सत्त्वं० (सकलवाङ्मयतत्त्वं), सकलवाङ्मयतत्त्वस्य बोध: स०ध:० (सकलवाङ्मय-तत्त्वबोधः), तस्मात् स० (सकलवाङ्मयतत्त्व) बोधात् । कैः कृत्वा संस्तुतः ?। स्तोत्रैः। किंलक्षणैः स्तोत्रैः ?। जगत्त्रितयचित्तहरैः । जगतां त्रितयं जगत्त्रितय: (यं), जगत्त्रितयस्य चित्तानि जग०नि० (जगत्त्रितयचित्तानि), जगत्त्रितयचित्तानि हरन्तीति जगत्त्रितयचित्तहराणि तैः ज०हरै: ० (जगत्त्रितयचित्तहरैः) । पुनः उदारैः स्फारैः । किं कृत्वा स्तोष्ये ? | प्रणम्य । कथम् ?। सम्यग् । किं कर्मतापन्नम् ?। जिनपादयुगम्। पादयोर्युगं पादयुगं, जिनस्य पादयुगं जि०गं० (जिनपादयुगम्) । किंलक्षणम् ? | आलम्बनम् । केषाम् ?। जनानाम् । जनानां किं कुर्वताम् ?। पततां ब्रुडताम् । क्व ? | भवजले । भव एव जलं तस्मिन् भवजले । कस्मिन् काले जिनपादयुगं आलम्बनम् ? | युगादौ । युगस्य आदिः युगादिः, तस्मिन् युगादौ । पुनः कीदृशं जिनपादयुगम् ? | उद्योतकम् । उद्योतयतीति उद्योतकं तत् उद्योतकारकम् । कासाम् ? | भक्ता० प्रभाणां (भक्ताऽमरप्रणतमौलिमणिप्रभाणाम्) । भक्ताश्च ते अमराश्च भ० मरा: (भक्तामराः), प्रणताश्च ते मौलयश्च प्रणतमौलय: । भक्तामराणां प्रणतमौलयः भ० मौलयः (भक्तामरप्रणतमौलयः) । भक्ता० (भक्तामरप्रणत) मौलीनां मणयः भ०(भक्तामरप्रणतमौलि) मणयः । भ० (भक्तामरप्रणतमौलि) मणीनां प्रभां(भा)भ०(भक्तामरप्रणतमौलिमणि) प्रभां (भा), तेषां भ० (भक्तामरप्रणतमौलिमणि) Page #3 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० प्रभाणाम् । पुनः किंलक्षणं जिनपादयुगम् ?। दलितपापतमोवितानम् । तमसो वितानं तमोवितानम्, पापमेव तमोवितानं पा०(पापतमोविता) नम्, दलितं पापतमोवितानं येन तत् द० (दलितपापतमोविता) नम् ॥२॥ बुद्धया विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ बुद्धया० ॥ हे विबुधार्चितपादपीठ ! पादयोः पीठं पादपीठम्, विबुधैः अर्चितं वि०(विबुधार्चि)तम्, विबुधार्चितं पादपीठं यस्य स वि (विबुधार्चितपादपीठ)स्तस्य सं (सम्बोधनम्) । अहं विगतत्रपोऽस्मि । विगता त्रपा यस्मात् । पुनः कीदृशोऽहं ?, समुद्यतमतिः । समुद्यता मतिर्यस्य [स] समु(द्यतम)तिः । उद्यतबुद्धिरित्यर्थः । किं कर्तुं ?, स्तोतुम् । कथं ?, विना । कया ?, बुद्धया । दृष्टान्तोऽत्र-कोऽन्यो जनः सहसा इन्दुबिम्बं ग्रहीतुं इच्छेत् ?। इन्दोबिम्बं इन्दुबिम्बं तत् । कथं ?, सहसा । इन्दुबिम्बं किम्भूतम् ?, जलसंस्थितम् । जले संस्थितं ज(लसंस्थि)तं, तत् । किं कृत्वा ?, विहाय त्यक्त्वा । कं कर्मतापन्नम् ?, बालम् । अज्ञशिशुमित्यर्थः ॥३॥ वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ वक्तुं० ॥ हे गुणसमुद्र ! गुणानां समुद्रो गु(णसमु)द्रः, तस्य सं (सम्बोधने) । ते-तव गुणान् वक्तुं कः क्षमोऽस्ति?, अपि तु न कोऽपि । गुणान् कथम्भूतान् ?, शशाङ्ककान्तान् । शशाङ्कवत् कान्ताः श(शाङ्कका)न्तास्तान् । कः कीदृशोऽपि ?, सुरगुरुप्रतिमोऽपि । बृहस्पतितुल्योऽपि । सुराणां गुरुः सुरगुरुः, सुरगुरोः प्रतिमः सुरगुरुप्रतिमः । कथं अपि कया ?, बुद्धया । दृष्टान्तमाह - को वा अम्बुनिधिं भुजाभ्यां तरीतुं अलं-समर्थो भवेत् ?। न कश्चिदपि । कीदृशं अम्बुनिधिम् ?, कल्पान्तकालपवनोद्धतनक्रचक्रम् । कल्पान्तकालवायुना उद्धतानि-ऊद्धर्वं चलितानि नक्रचक्राणि-यादोवु(वृ)न्दानि यत्रेत्यर्थः । कल्पस्य अन्तः कल्पान्तः, कल्पान्तश्चासौ कालश्च कल्पान्तकालः । कल्पान्तकालस्य पवनः काल्पान्तकालपव) Page #4 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ नः । कल्पान्तकालपवनेन उद्धतानि क(ल्पान्तकालपवनोद्ध)तानि । नक्राणां चक्राणि नक्रचक्राणि । कल्पान्तकाल-पवनोद्धतानि नक्रचक्राणि यत्र स क(ल्पान्तकालपवनोद्धतनक्रच)क्रः, तम् ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ सोहं० ॥ हे मुनीश ! सः अहं, तथापि तव स्तवं कर्तुं प्रवृत्तोऽस्मि । मुनीनां ईशो मुनीशः, तस्य सं० । अहं कीदृशोऽपि?, विगतशक्तिरपि । विशेषेण गता शक्तिर्यस्य स विगतशक्तिः । स्तवं कर्तुं कस्मात् प्रवृत्तोऽस्मि?, भक्तिवशात् । भक्तेर्वशो भक्तिवशः, तस्माद् भ(क्तिवशात्) । अत्र दृष्टान्तमाह-मृगः किं मृगेन्द्रं न अभ्येति?, अपि तु आगच्छत्येव। मृगाणां इन्द्रो मृगेन्द्रः, तम्। किमर्थं ?, परिपालनायरक्षणाय । परिपालनाय इति परिपालनार्थम् । कस्य? निजशिशोः। निजस्य शिशुः निजशिशुः, तस्य । किं कृत्वा?, अविचार्य । किं कर्मतापन्नम् ?, आत्मवीर्यम्निजबलमित्यर्थः । आत्मनो वीर्यं आत्मवीर्य, तत् । कया?, प्रीत्या, स्नेहेनेत्यर्थः ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः॥६॥ __अल्प० ॥ हे नाथ ! त्वद्भक्तिरेव मां मुखरीकुरुते इत्यन्वयः । तव भक्ति:-त्वद्भक्तिः । अमुखरं मुखरं कुरुते, वाचालं कुरुते [इ]त्यर्थः । कथं ?, बलात्-हठात् । कं?, माम् । किलक्षणं ?, अल्पश्रुतम् । अल्पानि श्रुतानि यस्य स अ(ल्पश्रुत)स्तम् । किंलक्षणं मां ? परिहासधाम । परिहासस्य धाम प(रिहासधाम)। हास्यास्पदम् । केषां ?, श्रुतवताम् । श्रुतं विद्यते येषां ते श्रुतवन्तस्तेषां श्रुतवतां-दृष्टशास्त्राणामित्यर्थः । अर्थदृढीकरणायाह-किलेति सत्ये । यत्कोकिलः मधौ मधुरं विरौति तत् चारुचूतकलिकानिकरैकहेतुरस्ति। अस्तीति क्रियापदं, किंकर्तृ तत् ?, पिककूजितम् । तत् कथम्भूतं ?, चारुचू (तकलिकानिकरैक)हेतु-रुचिराम्रमञ्जरीसमूहैकहेतु । चारुश्चासौ चूतश्च चारुचूतः, Page #5 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० चारुचूतस्य कलिकाः चा(रुचूतकलि)काः, चारुचूतकलिकानां निकरः चा(रुचूतकलिकानिक)रः । एकश्चासौ हेतुश्च एकहेतुः । चारुचूतकलिकानिकर एव एकहेतुः चा(रुचूतकलिकानिकरैक)हेतुः ॥६॥ त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्सं० ॥ हे नाथ ! त्वत्संस्तवेन शरीरभाजां पापं क्षणात् क्षयमुपैति । तव संस्तवस्त्वत्संस्तवस्तेन । शरीरं भजन्तीति शरीरभाजस्तेषाम् । किंलक्षणं पापं ?, भवसन्ततिसन्निबद्धं - जन्मकोटिसमर्जितम् । भवानां सन्ततिः भ(वसन्त)तिः । भवसन्तत्यां सन्निबद्धं भ(वसन्ततिसन्नि)बद्धम् । दृष्टान्तमाहइव-यथा । शार्वरं अन्धकारं सूर्यांशुभिन्नं सत् क्षयमुपैति । शर्वर्यां भवं शार्वरम् । अन्धकारं कथम्भूतं ?, आक्रान्तलोकं-व्याप्तविश्वे(श्वमि)त्यर्थः । आक्रान्तो लोको येन तत् । पुनः किंलक्षणं ?, अलिनीलं अलिवन्नीलं, नीलत्र(त्रि)यामयोरैक्याद् भ्रमरवत् कृष्णम् । पुनः कथम्भूतं ?, अशेषं सर्वम् । पुनः कथम्भूतं ?, सूर्यांशुभिन्नम् । सूर्यप्रतापविदारितमित्यर्थः । सूर्यस्य अंशवः सू(र्यां)शवः, सूर्यांशुभिभिन्नम् । कथं ?, आशु-शीघ्रम् ॥७॥ मत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ मत्वेति० ॥ हे नाथ ! इदं तव संस्तवनं मया आरभ्यते । मया कथम्भूतेन ?, तनुधिया-स्वल्पमतिनेत्यर्थः । तन्वी धीर्यस्य स तनुधीस्तेन । किं कृत्वा ?, मत्वा अवबुद्ध्य । कथं ?, इति । इतीति किं ?, इदं स्तोत्रं सतां चेतः हरिष्यति । कस्मात् ? प्रभावात्-महिम्नः । कस्य, तव । ननु निश्चितं उदबिन्दुः नलिनीदलेषु मुक्ताफलद्युतिमुपैति । उदकस्य बिन्दुः उदबिन्दुः। नलिनीनां दलानि नलिनीदलानि तेषु न(लिनीदले)षु ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ आस्तां० ॥ हे नाथ ! तव स्तवनं दूरे आस्ताम् । त्वत्सङ्कथापि जगतां दुरितानि हन्ति । स्तवनं कथम्भूतं ?, अस्तसमस्तदोषं-समूलकाषं Page #6 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ कषितनिखिलदोषमित्यर्थः । समस्ताश्च ते दोषाश्च स(मस्तदो)षाः । अस्ताः समस्ता(स्त)दोषा येन तत् अ(स्तसमस्त)दोषम् । दृष्टान्तमाह- सहस्त्रकिरणः दूरे अस्तु । सहस्त्रं किरण(णा)यस्य सः स(हस्रकिर)णः । प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि कुरुते इत्यन्वयः । जले जायन्ते इति जलजानि । विकाशं(सं) भजन्ते इति विकासभाञ्जि ॥९॥ नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तम् । तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याऽऽश्रितं य इह नात्मसमं करोति ॥१०॥ नात्य० ॥ हे भुवनभूषण !! भुवनस्य भूषणं भु(वनभू)षणं तस्य सं० । हे भूतनाथ !! भूतानां नाथो भूतनाथस्तस्य सं० । हे प्रभो ! भूतैः गुणैः भवन्तं अभिष्टवन्तः भवतस्तुल्या भवन्ति, एतन्न अत्यद्भुतम् । व्यतिरेकमाहननु निश्चितं वा अथवा तेन स्वामिना किं स्यात् । यः इह जगति आश्रितं आत्मसमं न करोति । आत्मनः समः आत्मसमस्तं । कया ? भूत्या-ऋद्ध्या ॥१०॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ दृष्ट्वा भ० ॥ हे प्रभो ! जनस्य चक्षुः अन्यत्र तोषं न उपयाति । किं कृत्वा ?, दृष्ट्वा अवलोस्य । कं कर्मतापन्नं ?, भवन्तं त्वामित्यर्थः । भवन्तं कीदृशं ?, अनिमेषविलोकनीयं । निर्निमेषेण विलोक्यते-दृश्यते इति अनिमेषविलोकनीयस्तं अ(निमेषविलोक)नीयम् । दृष्टान्तमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं असितुं क इच्छेत् ? इत्यन्वयः । अपि तु न कोऽपि । दुग्धसिन्धोः पयः कथम्भूतं ?, शशिकरद्युति । शशोऽस्यास्तीति शशी, शशिनः कराः शशिकराः, शशिकर(रा) इव द्युतिर्यस्य तत् शशिकरद्युति ॥११॥ Page #7 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ यैः शान्त० ॥ हे त्रिभुवनैकललामभूत ।। त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । एकं च तल्ललाम च एकललाम । त्रिभुवने एकललाम त्रिभुवनैकललाम। त्रिभुवनैकललामैव त्रिभुवनैकललामभूतस्तस्य सम्बोधनं हे त्रि(भुवनैकललाम)भूत ! । तेऽपि अणवः पृथिव्यां तावन्त एव वर्तन्ते । ते के?, यैः परमाणुभिस्त्वं निर्मापितः इति क्रियाकारकसण्टङ्कः । परमाणुभिः कथम्भूतैः ?, शान्तरागरुचिभिः । शान्तश्चासौ रागश्च शान्तरागः, शान्तरागस्य रुचिर्येषु ते शान्तरागरुचयः, तैः शान्तरागरुचिभिः । यद्-यस्मात् कारणात् ही( हि) निश्चितं ते-तव समानं अपरं रूपं नास्ति ॥१२॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ वक्त्रं० ॥ हे नाथ ! ते - तव वक्त्रं क्व वर्तते ? तथा निशाकरस्य बिम्बं क्व वर्तते ?। वक्त्रं कथम्भूतं ?, सुरनरोरगनेत्रहारि । सुराश्च नराश्च उरगाश्च सुरनरोरगाः । सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि । सुरनरोरगनेत्राणि हरन्तीत्येवं शीलं सुरनरोरगनेत्रहारि । पुनः कथम्भूतं ?, निःशेषनिर्जितजगत्त्रितयोपमानम् । जगतां त्रितयं जगत्रितयं, जगत्रितयस्योपमानानि जगत्रितयोपमानानि । निःशेष(षं) निर्जितानि जगत्रितयोपमानानि येन तत् । निशाकरस्य बिम्बं कथम्भूतं ?, कलङ्कमलिनम् । कलङ्केन मलिनं कालङ्कमलि) नम् । यत् चन्द्रबिम्बं वासरे पाण्डुपलाश[क]ल्पं भवति । पाण्डु च तत् पलाशं च पाण्डुपलाशं । पाण्डुपलाशस्य कल्पं जीणा(ण)पक्त(क्व)पाण्डुरवर्णपत्रसदृशं भवतीत्यर्थः ॥१३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ? ॥१४॥ Page #8 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ सम्पूर्ण० ॥ हे त्रिजगदीश्वर ! त्रयाणां जगतां समाहारस्त्रिजगत् । त्रिजगत ईश्वरस्त्रिजगदीश्वरस्तस्य सम्बोधनं हे त्रिजगदीश्वर !। ये तव गुणास्त्रिभुवनं लक्यन्ति । गुणाः किंविशिष्टाः?, सम्पूर्ण(मण्डलशशाङ्क-कलाकलापशुभ्राः) । सम्पूर्ण मण्डलं यस्य सम्पूर्णमण्डलः । शशे(शो)ऽङ्के यस्य स शशाङ्कः । सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः । कलानां कलापः कलाकलापः । सम्पू(र्णमण्डल)शशाङ्कस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः । [सम्पूर्णमण्डलशशाङ्ककलाकलाप]वत् शुभ्राः सम्पूर्ण(मण्डलशशाङ्ककलाकलाप) शुभ्राः । ये गुणा एकं नाथं संश्रिताः, कः पुरुषः यथेष्टं सञ्चरतस्तान् गुणान् निवारयति इत्यन्वयः । इष्टस्याऽनतिक्रमेण यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि र्नीतं मनागपि मनो न विकारमार्गम् ।। कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित् ? ॥१५॥ चित्रं कि० ॥ हे नाथ ! यदि ते- तव मनः मनागपि त्रिदशाङ्गनाभिर्विकारमार्ग न नीतं इत्यन्वयः । त्रिदशानां अङ्गनाः त्रिदशाङ्गनाः, ताभिः त्रि(दशाङ्गना)भिः । विकारस्य मार्गो विकारमार्गस्तम् । अत्र किं चित्रं अस्ति?। न किमपीत्यर्थः । दृष्टान्तमाह- कदाचित् कल्पान्तकालमरुता किं मन्दराद्रिशिखरं चलितम् ? । कल्पान्तकालमरुता कथम्भूतेन ?, चलिताचलेन । चलिता अचला येन स च(लिताच)लस्तेन । कल्पस्य अन्तलपत (अन्तः कल्पान्तः) । कल्पान्तश्चासौ कालश्च क(ल्पान्तका)लः । कल्पान्तकालस्य मरुत् काल्पान्तकालमरु)त् । तेन काल्पान्तकालमरु)ता । मन्दरश्चासौ अद्रिश्च मन्दराद्रिः । मन्दराद्रेः शिखरं मन्दरादिशिखरम् ॥१५।। निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ निधूम० ॥ हे नाथ ! त्वं अपरं दीपः असि । यतः-किंविशिष्टः ? निर्धूमवर्तिः । धूमश्च वर्तिश्च धूमवर्ती, निर्गते धूमवर्ती यस्मात् असौ Page #9 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० नि(धूम)वर्त्तिः । धूमो द्वेषः, वर्त्तिः कामदशा, ताभ्यां रहिते(त इ)त्यर्थः । पुनः कथम्भूतः ?, अपवर्जिततैलपूरः । [तैल]स्य पूरः तैलपूरः, अपवर्जितस्तैलपूरो येन सः०। त्यक्तस्नेहप्रकरः । अन्यच्च त्वं कृत्स्नं इदं जगत्त्रयं प्रकटीकरोषि । अप्रकटं प्रकटं करोषि प्र(कटीकरोषि) । अन्यच्च-त्वं जातु-कदाचित् मरुतां न गम्यः-न वशोऽसीति शेषः । मरुतां कथम्भूतानां ?, चलि[ताचलानाम्] । चलिता अचला यैस्ते च(लिताच)लास्तेषाम् ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ ___ नास्तं० ॥ हे मुनीन्द्र ! त्वं लोके सूर्यातिशायिमहिमा असि । सूर्यादतिशायी महिमा यस्य सः । यतः- कदाचिद् अस्तं न उपयासि । च राहुगम्यः न असि । राहुणा गम्य: रा(हुगम्यः) । तथा त्वं सहसा युगपदेव जगन्ति स्पष्टीकरोषि । अस्पष्टं स्पष्टं करोषि स्प(ष्टीकरोषि) । तथा त्वं अम्भोधरोदरनिरुद्धमहाप्रभावः न असि । अम्भोधरा मेघाः, तस्य(तेषां)? कुक्षिः, तेनाऽपहतो महान् प्रभावो यस्य सः ०। अम्भो धरन्तीति अम्भोधराः । अम्भोधराणामुदरं अ(म्भोधरोदरं) । महांश्चासौ प्रभावश्च म(हाप्रभावः) । अम्भोधरोदरे निरुद्धो महाप्रभावो यस्य सः अम्भो(धरोदरनिरुद्धमहाप्रभा)वः ॥१७॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्॥१८॥ नित्यो० ॥ हे जिनेन्द्र ! तव मुखाब्जं विभ्राजते । मुखमेव अब्जं मुखाब्जम् । मुखाब्जं किंविशिष्टं ?, अपूर्वशशाङ्कबिम्बम् । शशोऽङ्के यस्य स शशाङ्कः । शशाङ्कस्य बिम्बं शशाङ्कबिम्बम् । अपूर्वं च तत् शशाङ्कबिम्बं च अ(पूर्वशशाङ्क) बिम्बम् । किविशिष्टं मुखाब्जं ?, नित्योदयम् । नित्यं उदयो यस्य तत् । पुनः किविशिष्टं ?, दलितमोहमहान्धकारम् । महच्च तदन्धकारं च महान्धकारम् । मोह एव महान्धकारं मोह(महान्धकार) । दलितं मोहमहान्धकारं येन तत् द(दलितमोहमहान्धकारम्) । पुनः कथम्भूतं, गम्यं-वशंकरं न । कस्य ? राहुवदनस्य । राहोर्वदनं राहुवदनं तस्य । पुनः वारिदानां न गम्यम् । वारि ददतीति वारिदास्तेषां वारिदानाम् । पुनः किम्भूतं ?, अनल्पकान्ति । अनल्पा कान्तिर्यस्य तत् । मुखाब्जं किं कुर्वत् ?, विद्योतयत् - प्रकाशयत् । Page #10 -------------------------------------------------------------------------- ________________ १० किं कर्मतापन्नं ?, जगत् ॥१८॥ किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ !! निष्पन्नशालिवनशालिनि जीवलोके ॥१९॥ कार्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥ किं शर्व० || हे नाथ ! शर्वरीषु शशिना वा - अथवा अह्नि विवस्वता वा सूर्येण किं कार्यं भवतीत्यन्वयः, न किमपीत्यर्थः । केषु सत्सु ?, तमस्सु सत्सु । तमस्सु कथम्भूतेषु, युष्मन्मुखेन्दुदलितेषु । मुखमेव इन्दुः मुखेन्दुः । युष्माकं मुखेन्दुः युष्मन्मुखेन्दुः । युष्मन्मुखेन्दुना दलितानि युष्मन्मुखेन्दुदलितानि, तेषु युष्मन्मुखेन्दुदलितेषु । अत्र दृष्टान्तमाह-जीवलोके जलधरैः कियत् कार्यं स्यात्, न किमपीत्यर्थः । जीवलोके कथम्भूते ?, निष्पन्नशालिवनशालिनि । जलधरैः कथम्भूतैः ?, जलभारनम्रैः । शालीनां वनानि शालिवनानि । निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि । निःपन्नशालिवनैः शालते - शोभते इत्येवंशीलो निष्पन्नशालिवनशाली, तस्मिन् निष्पन्नशालिवनशालिनि । जलस्य भारः जलभारः । जलभारेण नम्रा जलभारनम्रास्तैः ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं, अनुसन्धान ५२ नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ ज्ञानं० ॥ हे नाथ ! यथा त्वयि ज्ञानं विभाति । ज्ञानं किंविशिष्टं ?, कृतावकाशम् । कृतो अवकाशो येन तत् । तथा हरिहरादिषु नायकेषु न एवं विभाति । हरिश्च हरश्च [हरि ] हरौ । हरिहरावादी येषां ते हरिहरादयः । तेषु । दृष्टान्तोऽत्र-यथा स्फुरन्मणिषु तेजः महत्त्वं याति, तु– पुनः काच शकले न एवं महत्त्वं याति । स्फुरन्तश्च ते मणयश्च० तेषु । काचस्य शकलं काचशकलं तस्मिन् ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु हृदयं त्वयि तोषमेति । Page #11 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥ मन्ये० ॥ हे नाथ ! यन्मया हरिहरादय एव दृष्टास्तद्वरं मन्ये । येषु दृष्टेषु त्वयि हृदयं तोषमेति । भवता वीक्षितेन किं स्यात् ? येन अन्यः कश्चिद् भवान्तरेऽपि भुवि मनो न हरति । एकस्माद् भवादन्यो भवो भ(वान्तरम्) ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नाऽन्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ स्त्रीणां० ॥ हे नाथ ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति । अन्या जननी त्वदुपमं सुतं न प्रसूता । तव उपमा यस्य स त्वदुपमस्तम् । अत्रोपमानं- सर्वा दिशः भानि दधति-धारयन्तीत्यर्थः । प्राच्येव दिग् स्फुरदंशुजालं सहस्ररश्मि जनयति-प्रसूते (ते इ) त्यर्थः । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तम् । स्फुरन्तश्च तेंऽशवश्च स्फुरदंशवः । स्फुरदंशूनां जालं स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ त्वामाम० । हे मुनीन्द्र ! मुनयस्त्वां परमं पुमांसं आमनन्ति । त्वां किम्भूतं ?, अमलं, न विद्यते मलो यस्य सोऽमलस्तम् । पुनः किम्भूतं ?, आदित्यवर्णम् । आदित्यस्येव वर्णो यस्य स आ(दित्यवर्ण)स्तम् । कथं ?, परस्तात् । कस्य ? तमस्यः (सः) । त्वामेव सम्यग् उपलभ्य मुनयः मृत्युंकृतान्तभयं जयन्ति-स्फेटयन्ति । अन्यः शिवपदस्य शिवः-निरुपद्रवः पन्था नास्ति ॥२३॥ Page #12 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ त्वामव्ययं० ॥ हे मुनीन्द्र ! सन्तस्त्वां एवंविधं प्रवदन्ति । त्वां किंविशिष्टं ?, अव्ययम् । न विद्यते व्ययो यस्य सः० सर्वकालस्थितिकस्वभावम् । पुनः-विभुम् । पुनः - अचिन्त्यम् । चिन्तनार्हो () चिन्त्यः, न चिन्त्योऽचिन्त्यः तम् । आध्यास्मि(त्मि)कैरपि चिन्तितुमस(श)क्यः । पुनः-असङ्ख्यम् । न विद्यते संख्या यस्य सोऽसंख्यस्तं असङ्ख्यगुणैरपरिमितं इत्यर्थः । पुनः-आद्यम् । पुनः-ब्रह्माणम् । बृंहति-अनन्तानन्देन वर्द्धते इति ब्रह्मा, तम् । पुनः-ईश्वरं-नाथं इत्यर्थः । पुनः-अनन्तं, न विद्यतेऽन्तो यस्य स अनन्तस्तं मृत्युरहितमित्यर्थः । पुनः-अनङ्गकेतुमामनन्ति । अनङ्गे केतुरनङ्गकेतुस्तम्, कामनाशनमित्यर्थः । पुनः-योगीश्वरम् । पुनः-विदितयोगम् । विदितो योगो येन सः । पुनःअनेकम् । [न] एकोऽने कस्तम् । ज्ञानेन सर्वगतत्वात् । पुनः-एकं, जीवद्रव्याद्यपेक्षया। पुनः- ज्ञानस्वरूपम् । ज्ञानमेव स्वरूपं यस्य सः । क्षायिककेवलज्ञानमयम् । पुनः-अमलम् । न विद्यते मलो यत्र सोऽमलस्तम् ॥२४॥ बुद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर ! शिवमार्गविधेविधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ बद्ध० ॥ हे विबुधार्चित ! विबुधैरचितो विबुधार्चितस्तस्य सम्बोधनं हे विबुधार्चित !। त्वमेव बुद्धोऽसि । कस्मात् ?, बुद्धिबोधात् । मतिप्रकाशादित्यर्थः । बुद्धोधो बुद्धिबोधस्तस्मात् । त्वं शङ्करोऽसि । कस्मात् ?, भुवनत्रयशंकरत्वात् । भुवनानां त्रयं भु(वनत्र)यं । शं करोतीति शंकरः, शंकरस्य भावः शंकरत्वं, भुवनत्रयस्य शंकरत्वं भु(वनत्रयशंकर)त्वं, तस्मात् । हे धीर ! त्वं धाताऽसि । कस्मात् ?, विधानात् । कस्य ?, शिवमार्गविधेः । हे भगवन् ! व्यक्तं त्वमेव पुरुषोत्तमः असि । पुरुषेषूत्तमः ॥२५॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ Page #13 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० १३ तुभ्यं० ॥ हे नाथ ! तुभ्यं नमोऽस्तु । तुभ्यं किम्भूताय ?, त्रिभुवनातिहराय । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । त्रिभुवनस्यार्तिस्त्रिभुवनार्त्तिः । त्रिभुवनार्त्ति हरतीति त्रिभुवनार्त्तिहरस्तस्मै त्रिभुवनातिहराय तुभ्यं नमोऽस्तु । तुभ्यं कथम्भूताय ?, क्षितितलामलभूषणाय । क्षितितलस्य अमलभूषणाय क्षि(तितलामलभूष)णाय । तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय?, परमेश्वराय । परमश्चासावीश्वरश्च परमेश्वरस्तस्मै प(रमेश्वराय) । कस्य ?, त्रिजगतः । हे जिन ! तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ?, भवोदधिशोषणाय। भव एवोदधिर्भवोदधिः । भवोदधेः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै भ(वोदधिशोषणाय) ॥२६॥ को विस्मयोऽत्र यदि नाम गणैरशेषै स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ को वि० ॥ हे मुनीश ! नाम इति कोमलामन्त्रणे । यदि निरवकाशतया सर्वाङ्गव्यापकतयेत्यर्थः । अशेषैः गुणैस्त्वं संश्रित इत्यन्वयः । अत्र को विस्मयः ? किमाश्चर्यमित्यर्थः । निर्गतोऽवकाशो यस्मात् स निरवकाशः । निरवकाशस्य भावः निरवकाशता तया । अन्यच्च-दोषैः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितोऽसि । दोषैः किंलक्षणैः ?, उपात्तविविधाश्रयजातगर्वैः । आप्तनानाश्रयोत्पन्नगर्वैरित्यर्थः । विविधाश्च ते आश्रयाश्च विविधाश्रयाः । उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः । उपात्तविविधाश्रयैर्जातो गर्वो येषां ते उपात्तविविधाश्रयजात)गर्वास्तैः उ(पात्तविविधाश्रयजात)गर्वैः । एकस्मात् स्वप्नात् अन्यः स्वप्नः स्वप्नान्तरं, तस्मिन् स्वप्नान्तरे ॥२७॥ उच्चैरशोकतरु-संश्रितमुन्मयूख-माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ उच्चै० ॥ हे नाथ ! भवतस्तव रूपमाभाति । कथं ?, उच्चैः । रूपं किंलक्षणं ?, अशोकतरुसंश्रितम् । न विद्यते शोको यत्र असौ अशोकः । अशोकश्चासौ तरुश्च अशोकतरुः । अशोकतरौ संश्रितं अ(शोकतरुसं(श्रि)तम् । पुनः किं(लक्षणं)रूपं ?, उन्मयूखम् । उल्लसन्तो मयूखा यस्य तत् उन्मयूखम् । Page #14 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ पुनः अमलम् । न विद्यते मलो यत्र तदमलम् । कथं ?, नितान्तं-निरन्तरम् । दृष्टान्तमाह-इव-यथा रवेः बिम्बमाभाति । बिम्बं किंलक्षणं ?, पयोधरपार्श्ववर्त्ति । पयो धरतीति पयोधरं । पयोधरस्य पाश्र्वं प(योधरपार्श्वम् । पयोधरपार्वे वर्तते इत्येवं शीलं पयो(धरपार्श्वव)र्ति । पुनः किं(लक्षणं)?, स्पष्टोल्लसत्किरणम् । उल्लसन्तश्च ते किरणाश्च उ(ल्लसत्किर)णाः । स्पष्टा उल्लसत्किरणा यस्मिन् तत् स्प(ष्टोल्लसत्किर)णम् । पुनः किंलक्षणं बिम्बं?, अस्ततमोवितानम्। तमसो वितानं तमोवितानम् । अस्तं तमोवितानं येन ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥२९॥ ___ सिंहा० ॥ हे नाथ ! तव वपुः विभ्राजते । वपुः किंलक्षणं ?, कनकावदातम् । कनकवदवदातं गौरमित्यर्थः । कस्मिन् विभ्राजते ?, सिंहासने । किंविशिष्टे ?, मणिमयूखशिखाविचित्रे-रत्नकान्तिचूलाचारुणि । मणीनां मयूखा मणिमयूखाः । मणिमयूखानां शिखा मणिमयूख)शिखा । मणिमयूखशिखाभिर्विचित्रं मणिमयूखशिखाविचि)त्रं, तस्मिन् । दृष्टान्तमाह-इव-यथा सहस्ररश्मेबिम्बं विभ्राजते । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य । कस्मिन् ?, तुङ्गोदयाद्रिशिरसि । तुङ्गश्चासावुदयाद्रिश्च तुङ्गोदयाद्रिः । तुङ्गोदयाद्रेः शिरः तु(ङ्गोदयाद्रिशि)रः, तस्मिन् तु(गोदयाद्रिशिर)सि । बिम्बं कथम्भूतं ?, वियद्विलसदंशुलतावितानंद्योतमानांशुलताविस्तारो यस्येत्यर्थः । विलसन्तश्च ते अंशवश्च वि(लसदंश)वः । लतानां वितानं ल(ताविता)नम् । विलसदंशूनां लतावितानं यस्य तद् वि(लसदंशुलताविता)नम् ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ कुन्दा० ॥ हे नाथ ! तव वपुः विभ्राजते । किंलक्षणं वपुः ?, कलधौतकान्तम् । कलधौतवत् कान्तं क(लधौतका)न्तम् । पुनः किम्भूतं ?, कुन्दावर दातचलचामरचारु )शोभम् । चलानि च तानि चामराणि च चल चामराणि । कुन्दवदवदातानि कु(न्दावदा)तानि । कुन्दावदातानि च तानि चलचामराणि च कुन्दा(वदातचल)चामराणि । कुन्दाव(दातचल)चामरैश्चा: शोभा यस्य तत् कु(न्दावदातचलचामरचारु)शोभम् । दृष्टान्तमाह-इव-यथा सुरगिरेः Page #15 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० शातकौम्भं तटं विभ्राजते । कथं ?, उच्चैः । शातकुम्भस्येदं शातकौम्भं - सौवर्णं तटमित्यर्थः । पुनः किंलक्षणं तटं ?, उद्यच्छशाङ्कशुचिनिर्झरवारिधारम् । निर्झराणां वारीणि नि ( र्झरवारी) णि । निर्झरवारीणां धारा नि ( र्झरवारि ) धारा । शशोऽङ्के यस्य स शशाङ्कः । उद्यंश्चासौ शशाङ्कश्च उ ( द्यच्छशाङ्कः । उद्यच्छशाङ्कवत् शुचयो निर्झरवारिधारा यत्र तत् उ ( द्यच्छशाङ्कशुचिनिर्झरवारि ) धारम् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त - मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ छत्र० ॥ हे नाथ तव छत्रत्रयं विभाति । छत्राणां त्रयं छत्रत्रयम् । छत्रत्रयं किंलक्षणं ?, शशाङ्ककान्तम् । शशाङ्कवत् कान्तम् । पुनः - स्थितम् । कथं ?, उच्चैः । मूर्ध्नि स्थितमित्यर्थः । पुनः - स्थगित ( भानुकरप्र ) तापम् । भानोः करा भानुकरा: । भानुकराणां प्रतापः भानु (करप्र) ताप: । स्थगितो भानुकरप्रतापो येन तत् । पुन: किं (लक्षणं) ?, मुक्ता( फलप्रकरजालविवृद्धशो भम् ) । मुक्ताफलानां प्रकरो मुक्ताफलप्रकरः । मुक्ताफलप्रकरस्य जालं मुक्ताफलप्रकरजालम्) । मुक्ताफलप्रकरजालेन विवृद्धा शोभा यस्य तत् । छत्रत्रयं किं कुर्वत्?, प्रख्यापयत्-प्रकटयत् । किं कर्मतापन्नं ? परमेश्वरत्वम् । कस्य ?, त्रिजगतः॥३१॥ उन्निद्र हेमनवपङ्कजपुञ्जकान्ति पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, १५ पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥३२॥ ) उन्नि० ॥ हे जिनेन्द्र ! तव पादौ यत्र पदानि धत्तः । पादौ किंलक्षणौ ?, उन्निद्र ( हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभि रामौ । नवानि च तानि पङ्कजानि च न ( वपङ्कजा ) नि । हेम्नः नवपङ्कजानि । उन्निद्राणि च तानि हेमनवपङ्कजानि च । उन्निद्रहेमनवपङ्कजानां पुञ्जं, उन्निद्र हे (मनवपङ्कज)पुञ्जस्य कान्ति: उ ( न्निद्रहेमनवपङ्कजपुञ्जका)न्तिः । नखानां मयूखाः न(खमयू)खाः । नखमयूखानां शिखा न ( खमयूखशि) खा । पर्युल्लसन्त्यश्च ताः नख(मयूख)शिखाश्च प(र्युल्लसन्नखमयूख) शिखा:।उन्नि(द्रहेमनवपङ्कज)पुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखा उन्नि (द्र हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूख)शिखा: । उन्नि(द्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूख) शिखाभिः Page #16 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ अभिरामौ । तत्र विबुधाः पद्मानि परिकल्पयन्ति-निर्मापयन्तीत्यर्थः ॥३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा __तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ इत्थं० ॥ हे जिनेन्द्र ! इत्थं-अनेन प्रकारेण धर्मोपदेशनविधौ यथा तव विभूतिः अभूत् । धर्मस्य उपदेशनं धर्मोपदेश)नं, धर्मोपदेशनस्य विधिः धर्मोपदेशनविधिस्तस्मिन् । तथा अपरस्य सुरस्य न अभूत् । दृष्टान्तोऽत्र दिनकृतः यादृक् प्रभा [प्रहतान्धकारा] वर्तते, विकाशिनोऽपि ग्रहगणस्य तादृक् प्रभा कुतो भवतीत्यन्वयः । दिनं करोतीति दिनकृत्, तस्य दिनकृतः । प्रहतमन्धकारं यया सा प्र(हतान्धका)रा । विकाशोऽस्यास्तीति विकाशी तस्य विकाशिनः । ग्रहाणां गणो ग्रहगणस्तस्य ॥३३॥ श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ श्च्योतन्० ॥ हे नाथ ! भवदाश्रितानां पुंसां भयं नो भवति । भवन्तमाश्रिता भ(वदाश्रि)तास्तेषाम् । किं कृत्वा ?, दृष्ट्वा । कं कर्मतापन्नम् ? इभम् । किम्भूतमिभं?, ऐरावताभम् । ऐरावतवदाभा यस्य स ऐ(रावता) भस्तम् । पुनः किंलक्षणमिभं ?, उद्धतं-अविनीतम् । इभं किं कुर्वन्तं ?, आपतन्तम्सम्मुखमागच्छन्तम् । पुनः किंविशिष्टं ?, श्च्योतन्म (दाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध) कोपम् । श्च्योतंश्चासौ मदश्च, श्च्योतन्मदेन आविलं श्च्यो(तन्मदाविलम्) । कपोलयोर्मूले कपोलमा(मू)ले, कपोल[मू]लयोर्मत्ताः कपोलमूलमत्ताः । भ्रमन्तश्च ते भ्रमराश्च भ्रमभ्रमराः । कपोलमूलमत्ताश्च ते भ्रमभ्रमराश्च कपो(लमूलमत्तभ्रमभ्रम)राः । श्च्योतन्मदाविलाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराश्च श्च्योतन्म(दाविलविलोलकपोलमूलमत्तभ्रमद्) भ्रमराः । श्च्योतन्म(दाविलविलोलकपोलमूलमत्तभ्रमद्)भ्रमराणां नादः श्च्यो (तन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमर)नादः । श्च्योत (न्मदाविलविलोलपोलमूलमत्तभ्रमद्) भ्रमरनादेन विवृद्धः कोपो यस्य स श्च्यो (तन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोप) स्तम् ॥३४॥ Page #17 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० १७ भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त-मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ __ भिन्नेभ० ॥ हे नाथ ! हरिणाधिपोऽपि ते-तव क्रमयुगाचलसंश्रितं पुरुषं न आक्रामतीत्यन्वयः । न हन्तुमुद्धावतीत्यर्थः । हरिणानामधिपो ह(रिणाधि)पः । क्रमयोर्युगं क्रमयुगं एवाऽचलः । क्रमयुगाचलं संश्रितः क्र(मयुगाचलसंश्रि)तः तम् । पुरुषं किम्भूतं ?, क्रमगतम् । क्रमेण गतः क्रमगतस्तं-फालप्राप्तमित्यर्थः । हरिणाधिपः किम्भूतः ?, बद्धक्रमः । बद्धःकीलितः क्रमः-पराक्रमो यस्य सः। पुनः किंविशिष्टः ?, भिन्नेभ (कुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल-प्रकरभूषित )भूमिभागः । भिन्नाभ्यां हस्तिशिरःपिडा(ण्डा?)भ्यां गलता-पतता उज्ज्वलेन-श्वेतवर्णेन शोणिताक्तेनरुधिरखरण्टितेन मुक्ताफलप्रकरण-मौक्तिकसमूहेन भूषितो भूमिभागो येन सः । भिन्नश्चासाविभश्च भिन्नेभः । भिन्नेभस्य कुम्भौ भिन्नेभकुम्भौ । उज्ज्वलं च तत् शोणितं च उज्ज्वलशोणि)तम् । गलत् च तत् उज्ज्वलशोणितं [च]। भिन्नेभकुम्भाभ्यां गलदुज्ज्वलशोणितं भि(न्नेभकुम्भगलदुज्ज्वलशो)णितम् । भिन्नेभ (कुम्भगलदुज्ज्वल) शोणितेन अक्तो भि(न्नेभकुम्भगलदुज्ज्वलशोणि)ताक्तः । मुक्ताफलानां प्रकरो मु(क्ताफलप्रक)रः । भिन्ने(भकुम्भगलदुज्ज्वल)शोणिताक्तश्चासौ मुक्ताफलप्रकरश्च भि(न्नेकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल)प्रकरः । भूमे गो भूमिभागः । भिन्ने(भकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल)प्रकरेण भूषितो भूमिभागो येन स भि(न्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमि)भागः ॥३५।। कल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ कल्पान्त० ॥ हे नाथ ! त्वन्नामकीर्तनजलं अशेषं दावानलं शमयतीत्यन्वयः । तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्व(न्नामकीर्त) नम् । त्वन्नामकीर्तनमेवानां अग्रणि(?)(मेव जलम्) । न विद्यते शेषो यत्र सोऽशेषस्तम् । दावस्य अनलो दावानलस्तम् । किम्भूतं दावा(नलं)?, कुन्ताग्रभि०(?)(कल्पान्तकालपवन्तेद्धतवह्नि )कल्पम् । कल्पान्तश्चासौ कालश्च क(ल्पान्तका)लः । कल्पान्तकालस्य पवनः क(ल्पान्तकालपव)नः । कल्पान्तकालपवनेन उद्धतःउत्कटः कल्पा(न्तकालपवनो)द्धतः । कल्पा(न्तकालपवनो)द्धतश्चासौ वह्निश्च Page #18 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ क(ल्पान्तकालपवनोद्धतव)ह्निः । कल्पा(न्तकालपवना)द्धतवर्नेः कल्पः-तुल्यः कल्पा(न्तकालपवनोद्धतवह्निक) ल्पस्तम् । पुनः-ज्वलितं-प्रदीप्तम् । पुनःउज्ज्वलं-रक्तम् । पुनः-उत्स्फुलिङ्गं-उल्लसद्वह्निकणम् । उत्-ऊध्र्वं स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तम् । दावानलं किं कुर्वन्तं ?, आपतन्तं-आगच्छन्तम् । कथं ? सन्मुखम् । इव उत्प्रेक्षते-विश्वं जिघत्सुं-ग्रसितुम् ॥३६।। रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क-स्त्वन्नामनागदमनी हदि यस्य पुंसः ॥३७॥ रक्ते० ॥ हे नाथ ! यस्य पुंसः हृदि त्वन्नामनागदमनी वर्तते इत्यन्वयः । त्वन्नामैव नागदमनी त्वन्नामनागदमनी । स पुमान् निरस्तशङ्कः क्रमयुगेन फणिनमाक्रामति । निरस्ता शङ्का येन सः । क्रमयोर्युगं क्रमयुगं तेन । फणा विद्यते यस्य स फणी तम् । किम्भूतं फणिनं ?, रक्तेक्षणम् । रक्ते ईक्षणे-लोचने यस्य सः । पुनः-समदकोकिलकण्ठनीलम् । कोकिलस्य कण्ठः को(किलकण्ठः) । सह मदेन वर्तते यः स समदः । समदश्चासौ कोकिलकण्ठश्च स(मदकोकिल) कण्ठः । समदकोकिलकण्ठवन्नीलः स(मदकोकिलकण्ठ) नीलस्तम् । पुनः-क्रोधोद्धतम् । क्रोधेन उद्धतः-उत्कटः क्रो(धोद्धत)स्तम् । पुनः-उत्फणम् । [उत्-ऊर्ध्वं फणा] यस्य स उत्फणस्तम् । फणिनं किं कुर्वन्तं ?, आपतन्तम् । सम्मुखं धावन्तम् ॥३७॥ वल्गत्तुरङ्गगजगजितभीमनाद-माजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाऽऽशु भिदामुपैति ॥३८॥ वल्ग० ॥ हे नाथ ! त्वत्कीर्तनात् आजौ बलवतामपि भूपतीनां बलं आशु भिदामुपैतीत्यन्वयः । तव कीर्तनं त्वत्कीर्तनं तस्मात् । बलं विद्यते येषां[ते] बलवन्तस्तेषाम् । भुवः पतयो भूपतयस्तेषाम् । बलं किम्भूतं ?, वल्ग त्तुरङ्ग (गजगर्जितभीम )नादम् । तुरङ्गाश्च गजाश्च तुरङ्गगजाः । वल्गन्तश्च ते तुरङ्गजाश्च व(लगत्तुरङ्ग)गजाः । वल्गत्तुरङ्गगजानां गजितानि व(लगत्तुरङ्गगजगजि) तानि । भीमाश्च ते नादाश्च भीमनादाः । वल्गत्तुरङ्गगजगजितभीमनादा यत्र तत् व(लगत्तुरङ्गगजगजितभीम)नादम् । दृष्टान्तमाह-इव-यथा तमोऽन्धकारं भिदामुपैतिभेदं गच्छतीत्यर्थः । तमः किम्भूतम् ?, उद्य(दिवाकरमयूखशिखाप)विद्धम् । उद्गच्छद्रविकराग्रप्रेरितम् । दिवा करोतीति दिवाकरः । उद्यंश्चासौ दिवाकरश्च Page #19 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० १९ उ(द्यद्दिवा)करः । उद्यद्दिवाकरस्य मयूखाः उ(द्यद्दिवाकरमयू)खाः । उद्यद्दिवाकरमयूखाणां शिखा उ(द्यद्दिवाकरमयूखशि)खाः । उद्य(दिवाकरमयूख) शिखाभिरपविद्धं उ(द्यद्दिवाकरमयूखशिखाप)विद्धम् ॥३८॥ कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ कुन्ता० ॥ हे नाथ ! त्वत्पादपङ्कजवनाश्रयिणो जना युद्धे जयं लभन्ते इत्यन्वयः । तव पादौ त्वत्पादौ । पङ्के जायन्ते स्म इति पङ्कजानि । पङ्कजानां वनं पङ्कजवनम्)। त्वत्पादावेव पङ्कजवनं त्व(त्पादपङ्कज)वनम् । त्वात्पादपङ्कजवनं आश्रयन्ते इत्येवंशीलास्त्वत्पादपङ्कजवनाश्रयिणः । जनाः किम्भूताः ?, विजितदुर्जयजेयपक्षाः-निर्जितोत्कटवैरिगणाः । जेतुं योग्या जेयाः । जेयानां पक्षो जेयपक्षः । दुःखेन जयो यस्य स दुर्जयः । दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्षः । विजितो दुर्जयजेयपक्षो यैस्ते वि(जितदुर्जयजेयप)क्षाः । युद्धे किम्भूते ?, कुन्ताग्र( भिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध) भीमे । भल्लाङ्गः पाटितानां वारणानां रुधिरं तदेव जलप्रवाहस्तस्मिन् वेगावतारात् त्वरितप्रवेशात् तरणे आतुरैः सुभटैः भीष्मं तस्मिन् । कुन्तानामग्राणि कुन्ताग्राणि तैः कुन्ताग्रैभिन्नाः कुन्ताग्रभिन्नाः । कुन्ताग्रभिन्नाश्च ते गजाश्च कुरन्ताग्रभिन्न)गजाः । कुन्ताग्रभिन्नगजानां शोणितं कुरन्ताग्रभिन्नगजशोणि)तम् । वारिणो वाहः वारिवाहः । कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कु(न्ताग्रभिन्नगजशोणितवारि) वाहः । वेगेन अवतारो वेगावतारः । कुन्ता(ग्रभिन्नगजशोणितवारि) वाहे वेगावतारः कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगाव)तारः । तरणे आतुरास्तरणातुराः । कुन्ता (ग्रभिन्नगजशोणितवारिवाह)वेगावतारात् तरणातुराः कु(न्ताग्रभिन्नगजशोणितवारि वाहवेगावतारतरणा)तुराः । कुन्ता(ग्रभिन्नगजशोणितवारिवाह)वेगावतारतरणातुराश्च ते योधाश्च कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर)योधाः । कुन्ता (ग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर)योधैर्भीमं कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध) भीमं, तस्मिन् ॥३९॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्र-पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अम्भो० ॥ हे नाथ ! अम्भोनिधौ सांयात्रिका जना भवतः स्मरणात् Page #20 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ त्रासमाकस्मिकं भयं विहाय व्रजन्ति-क्रमेण स्वस्थानं गच्छन्तीत्यर्थः । अम्भसां निधिरम्भोनिधिस्तस्मिन् । जनाः किंलक्षणाः ?, रङ्गत्तरङ्गशिखरस्थितयानपात्रा:उच्छलत्कल्लोलाग्रवर्त्तिवाहना इत्यर्थः । रङ्गन्तश्च ते तरङ्गाश्च रङ्गत्तरङ्गाः । रङ्गत्तरङ्गाणां शिखराणि रङ्गित्तरङ्ग)शिखराणि । रङ्गत्तरङ्गशिखरे स्थितानि यानपात्राणि येषां ते रङ्गित्तरङ्गशिखरस्थितयानपात्राः) । अम्भोनिधौ कथम्भूते ?, क्षुभित(भीषणनक्रचक्रपाठीनपीठभयदोल्बण) वाडवाग्नौ । क्षौ(क्षु)भित(तानि)-क्षोभं गत(तानि) भीषणानि रौद्राणि नक्रचक्राणि दुष्टजलजन्तुवृन्दानि, पाठीनपीठौ मत्स्यभेदौ च भयदौ-भयोत्पादक उल्बण उत्कटो वडवानलश्च यत्र तथा तस्मिन् । नक्राणां चक्राणि नक्रचक्राणि । भीषणानि च तानि नक्रचक्राणि च भी(षणनक्रच)क्राणि । पाठीनाश्च पीठाश्च पाठीनपीठाः । वाडवस्याग्निर्वाडवाग्निः । उल्बणश्चासौ वाडवाग्निश्च उल्बणवाडवाग्निः । भयं ददातीति भयदः । भयदश्चासौ उल्बणवाडवाग्निश्च भयदोल्बणवाडवा)ग्निः । भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः । क्षुभित(ता) भी(षणनक्रचक्रपाठीनपीठभयदोल्बण)वाडवाग्नयो यत्र स क्षु(भितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाड)वाग्निः, तस्मिन् क्षु(भितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवा)ग्नौ ॥४०॥ उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मां भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ उद्भूत० । हे विभो ! त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा माः मकरध्वजतुल्यरूपा भवन्ति । तव पादौ त्वत्पादौ । पङ्के जायते इति पङ्कजम्। त्वत्पादावेव पङ्कजं त्वत्पादपङ्कजम् । त्वत्पादपङ्कजस्य रजः त्व (त्पादपङ्कज)रजः । त्वत्पादपङ्कजरज एवामृतं त्वत्पादपङ्कजरजोऽमृतम् । त्वत्पादपङ्कजरजोऽमृतेन दिग्धं-लिप्तं देहं येषां ते त्व (त्पादपङ्कजरजोऽमृतदिग्ध) देहाः । मकरो ध्वजे यस्य स मकरध्वजः । मकरध्वजस्य तुल्यं रूपं येषां ते म(मकरध्वजतुल्यरू)पाः । मर्त्याः कथम्भूताः?, उद्भूत (भीषणजलोदरभार) भुग्नाः । उत्पन्नभीमोदरवृद्धिव्याधिवक्राः । जलेन युक्तमुदरं जलोदरम् । भीषणं च तज्जलोदरं च भी(षणजलो)दरम् । उद्भूतं च भीषणजलोदरं च उद्भूतभीषणजलो)दरम् । उद्भूतभीषणजलोदरस्य भारः उद्भूतभीषणजलोदर) भारः । Page #21 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० २१ उद्भतभीषणजलोदरभारेण भुग्नाः उद्भूतभीषणजलोदरभार) भुग्नाः । पुनःउपगताः-प्राप्ताः । कां ?, दशां-अवस्थाम् । कथम्भूतां दशां ?, शोच्याम् । पुनः-श्च्युतजीविताशाः-त्यक्तजीवितवाञ्छाः । जीवितस्य आशा जीविताशा । च्युता जीविताशा येभ्यस्ते च्यु(तजीविताशाः) ॥४१॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवति ॥४२॥ आपाद० ॥ हे नाथ ! त्वन्नाममन्त्रं अनिशं स्मरन्तः मनुजाः सद्यः स्वयं विगतबन्धभया भवन्ति । तव नाम त्वन्नाम । त्वन्नामैव मन्त्रस्त्वन्नाममन्त्रस्तम् । बन्धस्य भयं बन्धभयम् । विगतं बन्धमयं येभ्यस्ते वि(गतबन्ध)भयाः । माः(मनुजाः)कथम्भूताः ?, आपादकण्ठं यथा स्यात् तथा मु(उ)रुशृङ्खलवेष्टिताङ्गाः । उरवश्च ते शृङ्खलाश्च उ(रुशृङ्ख)लाः । उरुशृङ्खलैर्वेष्टितानि अङ्गानि येषां ते उ(रुशृङ्खलवेष्टि) ताङ्गाः । पादौ च कण्ठश्च पादकण्ठम् । पादकण्ठं मर्यादीकृत्य आपादकण्ठम् । पुनः-बृहन्निगडकोटिनिघृष्टजङ्घाः । बृहंश्चासौ निगडश्च बृहन्निगडः । बृहन्निगडस्य कोटिवृहन्निगडकोटिः । बृहन्निगडकोट्या निघृष्टे जो येषां ते बृ(हन्निगडकोटिनिघृष्टज)ङ्घाः । कथं ?, गाढं-अत्यर्थम् ॥४२॥ मत्तद्विपेन्द्रमृगराजदवानलाहि-संग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याऽऽशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ मत्तद्वि० ॥ हे नाथ ! तस्य पुरुषस्य आशु-शीघ्रं भयं नाशमुपयाति । इव उत्प्रेक्षते, भिया-भयेन । यः मतिमान् तावकं इमं स्तवं अधीते । मतिरस्यास्तीति मतिमान् । तव इदं तावकम् । भयं किंविशिष्टं ?, मत्तद्विपेत्यादि । द्विपानामिन्द्रो द्विपेन्द्रः । मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः । मृगाणां राजा मृगराजः । दवस्यानलो दवानलः । वारीणि धीयन्ते अस्मिन्निति वारिधिः । महच्च तदुदरं च महोदरम् । मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च संग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्र (मृगराजदवानलाहिसंग्रामवारिधिमहोदर)बन्धनानि । मत्तद्विपेन्द्रमृगराजदवा(नलाहिसंग्रामवारिधिमहोदरबन्धनेभ्य उत्थं मत्तद्वि (पेन्द्रमृगराजदवानलाहिसंग्रामवारिधिमहोदर )बन्धनोत्थम् । गजेन्द्र १ सिंह Page #22 -------------------------------------------------------------------------- ________________ अनुसन्धान 52 2 दावाग्नि 3 सर्प 4 रण 5 समुद्र 6 जलोदर 7 बन्धनो (८)द्भवमित्यर्थः // 43 // स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् / धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः // 44 // स्तोत्र० // हे जिनेन्द्र ! यः जनः अजस्रं तव स्तोत्रस्रजं कण्ठगतां धत्ते, करोति-पठतीत्यन्वयः / स्तोत्रमेव स्रग् स्तोत्रस्रग् ताम् केन?, मया / कया ?, भक्त्या / पुनः किंलक्षणां स्तोत्रस्रजम् ?, रुचिरवर्णविचित्रपुष्पाम् / रुचिरवर्णान्येव विचित्राणि पुष्पाणि यस्याः सा रुचिरवर्णविचित्र पुष्पा, तां रुचि(रवर्णविचित्र)पुष्पाम् / मानतुङ्गं तं पुरुषं अवशा लक्ष्मीः समुपैति- समवात्(?) समीपमायातीति तत्त्वम् / न वशा अवशा, अवशा - तद्गतचित्तेत्यर्थः / मानेन तुङ्गो मानतुङ्गस्तं मानतुङ्ग-मानमहत्तरमित्यर्थः // 44 // श्रीलाभविजयप्राज्ञ-शिशुना बालबोधदा / / श्रीभक्तामरसूत्रस्य लिखिता वृत्तिरद्भुता // 1 // ___ इति श्रीभक्तामरस्तवावचूर्णिः // संवत् 1692 वर्षे श्रीशुद्धवंतीनगरे महोपाध्याय श्रीकल्याणविजयगणि[शि]ष्यमुख्य-पण्डितमुख्य पण्डित श्री५ श्री लाभविजयगणि शिष्य ग० नयविजयेनाऽलेखि / गणि मुक्तिविजयपठनकृते // शुभं भवतु //