________________
सप्टेम्बर २०१० प्रभाणाम् । पुनः किंलक्षणं जिनपादयुगम् ?। दलितपापतमोवितानम् । तमसो वितानं तमोवितानम्, पापमेव तमोवितानं पा०(पापतमोविता) नम्, दलितं पापतमोवितानं येन तत् द० (दलितपापतमोविता) नम् ॥२॥ बुद्धया विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ?
॥३॥
बुद्धया० ॥ हे विबुधार्चितपादपीठ ! पादयोः पीठं पादपीठम्, विबुधैः अर्चितं वि०(विबुधार्चि)तम्, विबुधार्चितं पादपीठं यस्य स वि (विबुधार्चितपादपीठ)स्तस्य सं (सम्बोधनम्) । अहं विगतत्रपोऽस्मि । विगता त्रपा यस्मात् । पुनः कीदृशोऽहं ?, समुद्यतमतिः । समुद्यता मतिर्यस्य [स] समु(द्यतम)तिः । उद्यतबुद्धिरित्यर्थः । किं कर्तुं ?, स्तोतुम् । कथं ?, विना । कया ?, बुद्धया । दृष्टान्तोऽत्र-कोऽन्यो जनः सहसा इन्दुबिम्बं ग्रहीतुं इच्छेत् ?। इन्दोबिम्बं इन्दुबिम्बं तत् । कथं ?, सहसा । इन्दुबिम्बं किम्भूतम् ?, जलसंस्थितम् । जले संस्थितं ज(लसंस्थि)तं, तत् । किं कृत्वा ?, विहाय त्यक्त्वा । कं कर्मतापन्नम् ?, बालम् । अज्ञशिशुमित्यर्थः ॥३॥ वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्रं
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ वक्तुं० ॥ हे गुणसमुद्र ! गुणानां समुद्रो गु(णसमु)द्रः, तस्य सं (सम्बोधने) । ते-तव गुणान् वक्तुं कः क्षमोऽस्ति?, अपि तु न कोऽपि । गुणान् कथम्भूतान् ?, शशाङ्ककान्तान् । शशाङ्कवत् कान्ताः श(शाङ्कका)न्तास्तान् । कः कीदृशोऽपि ?, सुरगुरुप्रतिमोऽपि । बृहस्पतितुल्योऽपि । सुराणां गुरुः सुरगुरुः, सुरगुरोः प्रतिमः सुरगुरुप्रतिमः । कथं अपि कया ?, बुद्धया । दृष्टान्तमाह - को वा अम्बुनिधिं भुजाभ्यां तरीतुं अलं-समर्थो भवेत् ?। न कश्चिदपि । कीदृशं अम्बुनिधिम् ?, कल्पान्तकालपवनोद्धतनक्रचक्रम् । कल्पान्तकालवायुना उद्धतानि-ऊद्धर्वं चलितानि नक्रचक्राणि-यादोवु(वृ)न्दानि यत्रेत्यर्थः । कल्पस्य अन्तः कल्पान्तः, कल्पान्तश्चासौ कालश्च कल्पान्तकालः । कल्पान्तकालस्य पवनः काल्पान्तकालपव)