________________
अनुसन्धान ५२
नः । कल्पान्तकालपवनेन उद्धतानि क(ल्पान्तकालपवनोद्ध)तानि । नक्राणां चक्राणि नक्रचक्राणि । कल्पान्तकाल-पवनोद्धतानि नक्रचक्राणि यत्र स क(ल्पान्तकालपवनोद्धतनक्रच)क्रः, तम् ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश !
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र
नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ सोहं० ॥ हे मुनीश ! सः अहं, तथापि तव स्तवं कर्तुं प्रवृत्तोऽस्मि । मुनीनां ईशो मुनीशः, तस्य सं० । अहं कीदृशोऽपि?, विगतशक्तिरपि । विशेषेण गता शक्तिर्यस्य स विगतशक्तिः । स्तवं कर्तुं कस्मात् प्रवृत्तोऽस्मि?, भक्तिवशात् । भक्तेर्वशो भक्तिवशः, तस्माद् भ(क्तिवशात्) । अत्र दृष्टान्तमाह-मृगः किं मृगेन्द्रं न अभ्येति?, अपि तु आगच्छत्येव। मृगाणां इन्द्रो मृगेन्द्रः, तम्। किमर्थं ?, परिपालनायरक्षणाय । परिपालनाय इति परिपालनार्थम् । कस्य? निजशिशोः। निजस्य शिशुः निजशिशुः, तस्य । किं कृत्वा?, अविचार्य । किं कर्मतापन्नम् ?, आत्मवीर्यम्निजबलमित्यर्थः । आत्मनो वीर्यं आत्मवीर्य, तत् । कया?, प्रीत्या, स्नेहेनेत्यर्थः ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः॥६॥
__अल्प० ॥ हे नाथ ! त्वद्भक्तिरेव मां मुखरीकुरुते इत्यन्वयः । तव भक्ति:-त्वद्भक्तिः । अमुखरं मुखरं कुरुते, वाचालं कुरुते [इ]त्यर्थः । कथं ?, बलात्-हठात् । कं?, माम् । किलक्षणं ?, अल्पश्रुतम् । अल्पानि श्रुतानि यस्य स अ(ल्पश्रुत)स्तम् । किंलक्षणं मां ? परिहासधाम । परिहासस्य धाम प(रिहासधाम)। हास्यास्पदम् । केषां ?, श्रुतवताम् । श्रुतं विद्यते येषां ते श्रुतवन्तस्तेषां श्रुतवतां-दृष्टशास्त्राणामित्यर्थः । अर्थदृढीकरणायाह-किलेति सत्ये । यत्कोकिलः मधौ मधुरं विरौति तत् चारुचूतकलिकानिकरैकहेतुरस्ति। अस्तीति क्रियापदं, किंकर्तृ तत् ?, पिककूजितम् । तत् कथम्भूतं ?, चारुचू (तकलिकानिकरैक)हेतु-रुचिराम्रमञ्जरीसमूहैकहेतु । चारुश्चासौ चूतश्च चारुचूतः,