________________
सप्टेम्बर २०१०
चारुचूतस्य कलिकाः चा(रुचूतकलि)काः, चारुचूतकलिकानां निकरः चा(रुचूतकलिकानिक)रः । एकश्चासौ हेतुश्च एकहेतुः । चारुचूतकलिकानिकर एव एकहेतुः चा(रुचूतकलिकानिकरैक)हेतुः ॥६॥ त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥
त्वत्सं० ॥ हे नाथ ! त्वत्संस्तवेन शरीरभाजां पापं क्षणात् क्षयमुपैति । तव संस्तवस्त्वत्संस्तवस्तेन । शरीरं भजन्तीति शरीरभाजस्तेषाम् । किंलक्षणं पापं ?, भवसन्ततिसन्निबद्धं - जन्मकोटिसमर्जितम् । भवानां सन्ततिः भ(वसन्त)तिः । भवसन्तत्यां सन्निबद्धं भ(वसन्ततिसन्नि)बद्धम् । दृष्टान्तमाहइव-यथा । शार्वरं अन्धकारं सूर्यांशुभिन्नं सत् क्षयमुपैति । शर्वर्यां भवं शार्वरम् । अन्धकारं कथम्भूतं ?, आक्रान्तलोकं-व्याप्तविश्वे(श्वमि)त्यर्थः । आक्रान्तो लोको येन तत् । पुनः किंलक्षणं ?, अलिनीलं अलिवन्नीलं, नीलत्र(त्रि)यामयोरैक्याद् भ्रमरवत् कृष्णम् । पुनः कथम्भूतं ?, अशेषं सर्वम् । पुनः कथम्भूतं ?, सूर्यांशुभिन्नम् । सूर्यप्रतापविदारितमित्यर्थः । सूर्यस्य अंशवः सू(र्यां)शवः, सूर्यांशुभिभिन्नम् । कथं ?, आशु-शीघ्रम् ॥७॥ मत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥
मत्वेति० ॥ हे नाथ ! इदं तव संस्तवनं मया आरभ्यते । मया कथम्भूतेन ?, तनुधिया-स्वल्पमतिनेत्यर्थः । तन्वी धीर्यस्य स तनुधीस्तेन । किं कृत्वा ?, मत्वा अवबुद्ध्य । कथं ?, इति । इतीति किं ?, इदं स्तोत्रं सतां चेतः हरिष्यति । कस्मात् ? प्रभावात्-महिम्नः । कस्य, तव । ननु निश्चितं उदबिन्दुः नलिनीदलेषु मुक्ताफलद्युतिमुपैति । उदकस्य बिन्दुः उदबिन्दुः। नलिनीनां दलानि नलिनीदलानि तेषु न(लिनीदले)षु ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥
आस्तां० ॥ हे नाथ ! तव स्तवनं दूरे आस्ताम् । त्वत्सङ्कथापि जगतां दुरितानि हन्ति । स्तवनं कथम्भूतं ?, अस्तसमस्तदोषं-समूलकाषं