________________
२
अनुसन्धान ५२
यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ वृत्ति: - प्रणम्य परमानन्दप्रदं निजगुरोः क्रमम् । बालबोधकृते भक्तामरस्यार्थो निदर्श्यते ॥१॥
भक्ता० यः सं० । व्याख्या- किल इति सत्ये । तं प्रथमं जिनेन्द्रं अहमपि तोष्ये । स्तोष्ये इति क्रियापदम् । कः कर्त्ता ? अहम् । कथं ?, अपि स्तोष्ये । कं ?, जिनेन्द्रम् । किंविशिष्टं ? प्रथमं तम् । कं ? यः सुरलोकनाथैः संस्तुतः । ‘संस्तुत' इति क्रियापदम् । कैः कर्तृभिः ?। सुरलोकनाथैः। सुराणां लोकाः सुरलोकाः, सुरलोकानां नाथाः सुरलोकनाथाः, तै:-इन्द्रैः संस्तुतः । कः । य: । सुरलोकनाथैः किंलक्षणैः ?। उद्भूतबुद्धिपटुभिः । उद्भूता चासौ बुद्धिश्च उ०द्धिः० (उद्भूतबुद्धिः) । उद्भूतबुद्ध्या पटवः उ०व:.(उद्भूतबुद्धिपटवः) तै: उ०भिः० (उद्भूतबुद्धिपटुभिः) । कुत:?। सकलवाङ्मयतत्त्वबोधात् । सकलं च तद् वाङ्मयं च स०यं॰ (सकलवाङ्मयं), सकलवाङ्मयस्य तत्त्वं सत्त्वं० (सकलवाङ्मयतत्त्वं), सकलवाङ्मयतत्त्वस्य बोध: स०ध:० (सकलवाङ्मय-तत्त्वबोधः), तस्मात् स० (सकलवाङ्मयतत्त्व) बोधात् । कैः कृत्वा संस्तुतः ?। स्तोत्रैः। किंलक्षणैः स्तोत्रैः ?। जगत्त्रितयचित्तहरैः । जगतां त्रितयं जगत्त्रितय: (यं), जगत्त्रितयस्य चित्तानि जग०नि० (जगत्त्रितयचित्तानि), जगत्त्रितयचित्तानि हरन्तीति जगत्त्रितयचित्तहराणि तैः ज०हरै: ० (जगत्त्रितयचित्तहरैः) । पुनः उदारैः स्फारैः । किं कृत्वा स्तोष्ये ? | प्रणम्य । कथम् ?। सम्यग् । किं कर्मतापन्नम् ?। जिनपादयुगम्। पादयोर्युगं पादयुगं, जिनस्य पादयुगं जि०गं० (जिनपादयुगम्) । किंलक्षणम् ? | आलम्बनम् । केषाम् ?। जनानाम् । जनानां किं कुर्वताम् ?। पततां ब्रुडताम् । क्व ? | भवजले । भव एव जलं तस्मिन् भवजले । कस्मिन् काले जिनपादयुगं आलम्बनम् ? | युगादौ । युगस्य आदिः युगादिः, तस्मिन् युगादौ । पुनः कीदृशं जिनपादयुगम् ? | उद्योतकम् । उद्योतयतीति उद्योतकं तत् उद्योतकारकम् । कासाम् ? | भक्ता० प्रभाणां (भक्ताऽमरप्रणतमौलिमणिप्रभाणाम्) । भक्ताश्च ते अमराश्च भ० मरा: (भक्तामराः), प्रणताश्च ते मौलयश्च प्रणतमौलय: । भक्तामराणां प्रणतमौलयः भ० मौलयः (भक्तामरप्रणतमौलयः) । भक्ता० (भक्तामरप्रणत) मौलीनां मणयः भ०(भक्तामरप्रणतमौलि) मणयः । भ० (भक्तामरप्रणतमौलि) मणीनां प्रभां(भा)भ०(भक्तामरप्रणतमौलिमणि) प्रभां (भा), तेषां भ० (भक्तामरप्रणतमौलिमणि)