________________
१०
किं कर्मतापन्नं ?, जगत् ॥१८॥
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ !! निष्पन्नशालिवनशालिनि जीवलोके
॥१९॥
कार्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥
किं शर्व० || हे नाथ ! शर्वरीषु शशिना वा - अथवा अह्नि विवस्वता वा सूर्येण किं कार्यं भवतीत्यन्वयः, न किमपीत्यर्थः । केषु सत्सु ?, तमस्सु सत्सु । तमस्सु कथम्भूतेषु, युष्मन्मुखेन्दुदलितेषु । मुखमेव इन्दुः मुखेन्दुः । युष्माकं मुखेन्दुः युष्मन्मुखेन्दुः । युष्मन्मुखेन्दुना दलितानि युष्मन्मुखेन्दुदलितानि, तेषु युष्मन्मुखेन्दुदलितेषु । अत्र दृष्टान्तमाह-जीवलोके जलधरैः कियत् कार्यं स्यात्, न किमपीत्यर्थः । जीवलोके कथम्भूते ?, निष्पन्नशालिवनशालिनि । जलधरैः कथम्भूतैः ?, जलभारनम्रैः । शालीनां वनानि शालिवनानि । निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि । निःपन्नशालिवनैः शालते - शोभते इत्येवंशीलो निष्पन्नशालिवनशाली, तस्मिन् निष्पन्नशालिवनशालिनि । जलस्य भारः जलभारः । जलभारेण नम्रा जलभारनम्रास्तैः
ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु ।
तेजः स्फुरन्मणिषु याति यथा महत्त्वं,
अनुसन्धान ५२
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥
ज्ञानं० ॥ हे नाथ ! यथा त्वयि ज्ञानं विभाति । ज्ञानं किंविशिष्टं ?, कृतावकाशम् । कृतो अवकाशो येन तत् । तथा हरिहरादिषु नायकेषु न एवं विभाति । हरिश्च हरश्च [हरि ] हरौ । हरिहरावादी येषां ते हरिहरादयः । तेषु । दृष्टान्तोऽत्र-यथा स्फुरन्मणिषु तेजः महत्त्वं याति, तु– पुनः काच शकले न एवं महत्त्वं याति । स्फुरन्तश्च ते मणयश्च० तेषु । काचस्य शकलं काचशकलं तस्मिन् ॥२०॥
मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु हृदयं त्वयि तोषमेति ।