________________
सप्टेम्बर २०१०
१३
तुभ्यं० ॥ हे नाथ ! तुभ्यं नमोऽस्तु । तुभ्यं किम्भूताय ?, त्रिभुवनातिहराय । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । त्रिभुवनस्यार्तिस्त्रिभुवनार्त्तिः । त्रिभुवनार्त्ति हरतीति त्रिभुवनार्त्तिहरस्तस्मै त्रिभुवनातिहराय तुभ्यं नमोऽस्तु । तुभ्यं कथम्भूताय ?, क्षितितलामलभूषणाय । क्षितितलस्य अमलभूषणाय क्षि(तितलामलभूष)णाय । तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय?, परमेश्वराय । परमश्चासावीश्वरश्च परमेश्वरस्तस्मै प(रमेश्वराय) । कस्य ?, त्रिजगतः । हे जिन ! तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ?, भवोदधिशोषणाय। भव एवोदधिर्भवोदधिः । भवोदधेः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै भ(वोदधिशोषणाय) ॥२६॥ को विस्मयोऽत्र यदि नाम गणैरशेषै
स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ को वि० ॥ हे मुनीश ! नाम इति कोमलामन्त्रणे । यदि निरवकाशतया सर्वाङ्गव्यापकतयेत्यर्थः । अशेषैः गुणैस्त्वं संश्रित इत्यन्वयः । अत्र को विस्मयः ? किमाश्चर्यमित्यर्थः । निर्गतोऽवकाशो यस्मात् स निरवकाशः । निरवकाशस्य भावः निरवकाशता तया । अन्यच्च-दोषैः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितोऽसि । दोषैः किंलक्षणैः ?, उपात्तविविधाश्रयजातगर्वैः । आप्तनानाश्रयोत्पन्नगर्वैरित्यर्थः । विविधाश्च ते आश्रयाश्च विविधाश्रयाः । उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः । उपात्तविविधाश्रयैर्जातो गर्वो येषां ते उपात्तविविधाश्रयजात)गर्वास्तैः उ(पात्तविविधाश्रयजात)गर्वैः । एकस्मात् स्वप्नात् अन्यः स्वप्नः स्वप्नान्तरं, तस्मिन् स्वप्नान्तरे ॥२७॥ उच्चैरशोकतरु-संश्रितमुन्मयूख-माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥
उच्चै० ॥ हे नाथ ! भवतस्तव रूपमाभाति । कथं ?, उच्चैः । रूपं किंलक्षणं ?, अशोकतरुसंश्रितम् । न विद्यते शोको यत्र असौ अशोकः । अशोकश्चासौ तरुश्च अशोकतरुः । अशोकतरौ संश्रितं अ(शोकतरुसं(श्रि)तम् । पुनः किं(लक्षणं)रूपं ?, उन्मयूखम् । उल्लसन्तो मयूखा यस्य तत् उन्मयूखम् ।