________________
अनुसन्धान ५२
पुनः अमलम् । न विद्यते मलो यत्र तदमलम् । कथं ?, नितान्तं-निरन्तरम् । दृष्टान्तमाह-इव-यथा रवेः बिम्बमाभाति । बिम्बं किंलक्षणं ?, पयोधरपार्श्ववर्त्ति । पयो धरतीति पयोधरं । पयोधरस्य पाश्र्वं प(योधरपार्श्वम् । पयोधरपार्वे वर्तते इत्येवं शीलं पयो(धरपार्श्वव)र्ति । पुनः किं(लक्षणं)?, स्पष्टोल्लसत्किरणम् । उल्लसन्तश्च ते किरणाश्च उ(ल्लसत्किर)णाः । स्पष्टा उल्लसत्किरणा यस्मिन् तत् स्प(ष्टोल्लसत्किर)णम् । पुनः किंलक्षणं बिम्बं?, अस्ततमोवितानम्। तमसो वितानं तमोवितानम् । अस्तं तमोवितानं येन ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥२९॥
___ सिंहा० ॥ हे नाथ ! तव वपुः विभ्राजते । वपुः किंलक्षणं ?, कनकावदातम् । कनकवदवदातं गौरमित्यर्थः । कस्मिन् विभ्राजते ?, सिंहासने । किंविशिष्टे ?, मणिमयूखशिखाविचित्रे-रत्नकान्तिचूलाचारुणि । मणीनां मयूखा मणिमयूखाः । मणिमयूखानां शिखा मणिमयूख)शिखा । मणिमयूखशिखाभिर्विचित्रं मणिमयूखशिखाविचि)त्रं, तस्मिन् । दृष्टान्तमाह-इव-यथा सहस्ररश्मेबिम्बं विभ्राजते । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य । कस्मिन् ?, तुङ्गोदयाद्रिशिरसि । तुङ्गश्चासावुदयाद्रिश्च तुङ्गोदयाद्रिः । तुङ्गोदयाद्रेः शिरः तु(ङ्गोदयाद्रिशि)रः, तस्मिन् तु(गोदयाद्रिशिर)सि । बिम्बं कथम्भूतं ?, वियद्विलसदंशुलतावितानंद्योतमानांशुलताविस्तारो यस्येत्यर्थः । विलसन्तश्च ते अंशवश्च वि(लसदंश)वः । लतानां वितानं ल(ताविता)नम् । विलसदंशूनां लतावितानं यस्य तद् वि(लसदंशुलताविता)नम् ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥
कुन्दा० ॥ हे नाथ ! तव वपुः विभ्राजते । किंलक्षणं वपुः ?, कलधौतकान्तम् । कलधौतवत् कान्तं क(लधौतका)न्तम् । पुनः किम्भूतं ?, कुन्दावर दातचलचामरचारु )शोभम् । चलानि च तानि चामराणि च चल चामराणि । कुन्दवदवदातानि कु(न्दावदा)तानि । कुन्दावदातानि च तानि चलचामराणि च कुन्दा(वदातचल)चामराणि । कुन्दाव(दातचल)चामरैश्चा: शोभा यस्य तत् कु(न्दावदातचलचामरचारु)शोभम् । दृष्टान्तमाह-इव-यथा सुरगिरेः