________________
सप्टेम्बर २०१०
१७
भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त-मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥
__ भिन्नेभ० ॥ हे नाथ ! हरिणाधिपोऽपि ते-तव क्रमयुगाचलसंश्रितं पुरुषं न आक्रामतीत्यन्वयः । न हन्तुमुद्धावतीत्यर्थः । हरिणानामधिपो ह(रिणाधि)पः । क्रमयोर्युगं क्रमयुगं एवाऽचलः । क्रमयुगाचलं संश्रितः क्र(मयुगाचलसंश्रि)तः तम् । पुरुषं किम्भूतं ?, क्रमगतम् । क्रमेण गतः क्रमगतस्तं-फालप्राप्तमित्यर्थः । हरिणाधिपः किम्भूतः ?, बद्धक्रमः । बद्धःकीलितः क्रमः-पराक्रमो यस्य सः। पुनः किंविशिष्टः ?, भिन्नेभ (कुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल-प्रकरभूषित )भूमिभागः । भिन्नाभ्यां हस्तिशिरःपिडा(ण्डा?)भ्यां गलता-पतता उज्ज्वलेन-श्वेतवर्णेन शोणिताक्तेनरुधिरखरण्टितेन मुक्ताफलप्रकरण-मौक्तिकसमूहेन भूषितो भूमिभागो येन सः । भिन्नश्चासाविभश्च भिन्नेभः । भिन्नेभस्य कुम्भौ भिन्नेभकुम्भौ । उज्ज्वलं च तत् शोणितं च उज्ज्वलशोणि)तम् । गलत् च तत् उज्ज्वलशोणितं [च]। भिन्नेभकुम्भाभ्यां गलदुज्ज्वलशोणितं भि(न्नेभकुम्भगलदुज्ज्वलशो)णितम् । भिन्नेभ (कुम्भगलदुज्ज्वल) शोणितेन अक्तो भि(न्नेभकुम्भगलदुज्ज्वलशोणि)ताक्तः । मुक्ताफलानां प्रकरो मु(क्ताफलप्रक)रः । भिन्ने(भकुम्भगलदुज्ज्वल)शोणिताक्तश्चासौ मुक्ताफलप्रकरश्च भि(न्नेकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल)प्रकरः । भूमे गो भूमिभागः । भिन्ने(भकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफल)प्रकरेण भूषितो भूमिभागो येन स भि(न्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमि)भागः ॥३५।। कल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥
कल्पान्त० ॥ हे नाथ ! त्वन्नामकीर्तनजलं अशेषं दावानलं शमयतीत्यन्वयः । तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्व(न्नामकीर्त) नम् । त्वन्नामकीर्तनमेवानां अग्रणि(?)(मेव जलम्) । न विद्यते शेषो यत्र सोऽशेषस्तम् । दावस्य अनलो दावानलस्तम् । किम्भूतं दावा(नलं)?, कुन्ताग्रभि०(?)(कल्पान्तकालपवन्तेद्धतवह्नि )कल्पम् । कल्पान्तश्चासौ कालश्च क(ल्पान्तका)लः । कल्पान्तकालस्य पवनः क(ल्पान्तकालपव)नः । कल्पान्तकालपवनेन उद्धतःउत्कटः कल्पा(न्तकालपवनो)द्धतः । कल्पा(न्तकालपवनो)द्धतश्चासौ वह्निश्च