Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ अनुसन्धान ५२ त्रासमाकस्मिकं भयं विहाय व्रजन्ति-क्रमेण स्वस्थानं गच्छन्तीत्यर्थः । अम्भसां निधिरम्भोनिधिस्तस्मिन् । जनाः किंलक्षणाः ?, रङ्गत्तरङ्गशिखरस्थितयानपात्रा:उच्छलत्कल्लोलाग्रवर्त्तिवाहना इत्यर्थः । रङ्गन्तश्च ते तरङ्गाश्च रङ्गत्तरङ्गाः । रङ्गत्तरङ्गाणां शिखराणि रङ्गित्तरङ्ग)शिखराणि । रङ्गत्तरङ्गशिखरे स्थितानि यानपात्राणि येषां ते रङ्गित्तरङ्गशिखरस्थितयानपात्राः) । अम्भोनिधौ कथम्भूते ?, क्षुभित(भीषणनक्रचक्रपाठीनपीठभयदोल्बण) वाडवाग्नौ । क्षौ(क्षु)भित(तानि)-क्षोभं गत(तानि) भीषणानि रौद्राणि नक्रचक्राणि दुष्टजलजन्तुवृन्दानि, पाठीनपीठौ मत्स्यभेदौ च भयदौ-भयोत्पादक उल्बण उत्कटो वडवानलश्च यत्र तथा तस्मिन् । नक्राणां चक्राणि नक्रचक्राणि । भीषणानि च तानि नक्रचक्राणि च भी(षणनक्रच)क्राणि । पाठीनाश्च पीठाश्च पाठीनपीठाः । वाडवस्याग्निर्वाडवाग्निः । उल्बणश्चासौ वाडवाग्निश्च उल्बणवाडवाग्निः । भयं ददातीति भयदः । भयदश्चासौ उल्बणवाडवाग्निश्च भयदोल्बणवाडवा)ग्निः । भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः । क्षुभित(ता) भी(षणनक्रचक्रपाठीनपीठभयदोल्बण)वाडवाग्नयो यत्र स क्षु(भितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाड)वाग्निः, तस्मिन् क्षु(भितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवा)ग्नौ ॥४०॥ उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मां भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ उद्भूत० । हे विभो ! त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा माः मकरध्वजतुल्यरूपा भवन्ति । तव पादौ त्वत्पादौ । पङ्के जायते इति पङ्कजम्। त्वत्पादावेव पङ्कजं त्वत्पादपङ्कजम् । त्वत्पादपङ्कजस्य रजः त्व (त्पादपङ्कज)रजः । त्वत्पादपङ्कजरज एवामृतं त्वत्पादपङ्कजरजोऽमृतम् । त्वत्पादपङ्कजरजोऽमृतेन दिग्धं-लिप्तं देहं येषां ते त्व (त्पादपङ्कजरजोऽमृतदिग्ध) देहाः । मकरो ध्वजे यस्य स मकरध्वजः । मकरध्वजस्य तुल्यं रूपं येषां ते म(मकरध्वजतुल्यरू)पाः । मर्त्याः कथम्भूताः?, उद्भूत (भीषणजलोदरभार) भुग्नाः । उत्पन्नभीमोदरवृद्धिव्याधिवक्राः । जलेन युक्तमुदरं जलोदरम् । भीषणं च तज्जलोदरं च भी(षणजलो)दरम् । उद्भूतं च भीषणजलोदरं च उद्भूतभीषणजलो)दरम् । उद्भूतभीषणजलोदरस्य भारः उद्भूतभीषणजलोदर) भारः ।

Loading...

Page Navigation
1 ... 18 19 20 21 22