Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २०१०
२१
उद्भतभीषणजलोदरभारेण भुग्नाः उद्भूतभीषणजलोदरभार) भुग्नाः । पुनःउपगताः-प्राप्ताः । कां ?, दशां-अवस्थाम् । कथम्भूतां दशां ?, शोच्याम् । पुनः-श्च्युतजीविताशाः-त्यक्तजीवितवाञ्छाः । जीवितस्य आशा जीविताशा । च्युता जीविताशा येभ्यस्ते च्यु(तजीविताशाः) ॥४१॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवति ॥४२॥
आपाद० ॥ हे नाथ ! त्वन्नाममन्त्रं अनिशं स्मरन्तः मनुजाः सद्यः स्वयं विगतबन्धभया भवन्ति । तव नाम त्वन्नाम । त्वन्नामैव मन्त्रस्त्वन्नाममन्त्रस्तम् । बन्धस्य भयं बन्धभयम् । विगतं बन्धमयं येभ्यस्ते वि(गतबन्ध)भयाः । माः(मनुजाः)कथम्भूताः ?, आपादकण्ठं यथा स्यात् तथा मु(उ)रुशृङ्खलवेष्टिताङ्गाः । उरवश्च ते शृङ्खलाश्च उ(रुशृङ्ख)लाः । उरुशृङ्खलैर्वेष्टितानि अङ्गानि येषां ते उ(रुशृङ्खलवेष्टि) ताङ्गाः । पादौ च कण्ठश्च पादकण्ठम् । पादकण्ठं मर्यादीकृत्य आपादकण्ठम् । पुनः-बृहन्निगडकोटिनिघृष्टजङ्घाः । बृहंश्चासौ निगडश्च बृहन्निगडः । बृहन्निगडस्य कोटिवृहन्निगडकोटिः । बृहन्निगडकोट्या निघृष्टे जो येषां ते बृ(हन्निगडकोटिनिघृष्टज)ङ्घाः । कथं ?, गाढं-अत्यर्थम् ॥४२॥ मत्तद्विपेन्द्रमृगराजदवानलाहि-संग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याऽऽशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥
मत्तद्वि० ॥ हे नाथ ! तस्य पुरुषस्य आशु-शीघ्रं भयं नाशमुपयाति । इव उत्प्रेक्षते, भिया-भयेन । यः मतिमान् तावकं इमं स्तवं अधीते । मतिरस्यास्तीति मतिमान् । तव इदं तावकम् । भयं किंविशिष्टं ?, मत्तद्विपेत्यादि । द्विपानामिन्द्रो द्विपेन्द्रः । मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः । मृगाणां राजा मृगराजः । दवस्यानलो दवानलः । वारीणि धीयन्ते अस्मिन्निति वारिधिः । महच्च तदुदरं च महोदरम् । मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च संग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्र (मृगराजदवानलाहिसंग्रामवारिधिमहोदर)बन्धनानि । मत्तद्विपेन्द्रमृगराजदवा(नलाहिसंग्रामवारिधिमहोदरबन्धनेभ्य उत्थं मत्तद्वि (पेन्द्रमृगराजदवानलाहिसंग्रामवारिधिमहोदर )बन्धनोत्थम् । गजेन्द्र १ सिंह

Page Navigation
1 ... 19 20 21 22