Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ५२
अभिरामौ । तत्र विबुधाः पद्मानि परिकल्पयन्ति-निर्मापयन्तीत्यर्थः ॥३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र !
धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा
__तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥
इत्थं० ॥ हे जिनेन्द्र ! इत्थं-अनेन प्रकारेण धर्मोपदेशनविधौ यथा तव विभूतिः अभूत् । धर्मस्य उपदेशनं धर्मोपदेश)नं, धर्मोपदेशनस्य विधिः धर्मोपदेशनविधिस्तस्मिन् । तथा अपरस्य सुरस्य न अभूत् । दृष्टान्तोऽत्र दिनकृतः यादृक् प्रभा [प्रहतान्धकारा] वर्तते, विकाशिनोऽपि ग्रहगणस्य तादृक् प्रभा कुतो भवतीत्यन्वयः । दिनं करोतीति दिनकृत्, तस्य दिनकृतः । प्रहतमन्धकारं यया सा प्र(हतान्धका)रा । विकाशोऽस्यास्तीति विकाशी तस्य विकाशिनः । ग्रहाणां गणो ग्रहगणस्तस्य ॥३३॥ श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥
श्च्योतन्० ॥ हे नाथ ! भवदाश्रितानां पुंसां भयं नो भवति । भवन्तमाश्रिता भ(वदाश्रि)तास्तेषाम् । किं कृत्वा ?, दृष्ट्वा । कं कर्मतापन्नम् ? इभम् । किम्भूतमिभं?, ऐरावताभम् । ऐरावतवदाभा यस्य स ऐ(रावता) भस्तम् । पुनः किंलक्षणमिभं ?, उद्धतं-अविनीतम् । इभं किं कुर्वन्तं ?, आपतन्तम्सम्मुखमागच्छन्तम् । पुनः किंविशिष्टं ?, श्च्योतन्म (दाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध) कोपम् । श्च्योतंश्चासौ मदश्च, श्च्योतन्मदेन आविलं श्च्यो(तन्मदाविलम्) । कपोलयोर्मूले कपोलमा(मू)ले, कपोल[मू]लयोर्मत्ताः कपोलमूलमत्ताः । भ्रमन्तश्च ते भ्रमराश्च भ्रमभ्रमराः । कपोलमूलमत्ताश्च ते भ्रमभ्रमराश्च कपो(लमूलमत्तभ्रमभ्रम)राः । श्च्योतन्मदाविलाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराश्च श्च्योतन्म(दाविलविलोलकपोलमूलमत्तभ्रमद्) भ्रमराः । श्च्योतन्म(दाविलविलोलकपोलमूलमत्तभ्रमद्)भ्रमराणां नादः श्च्यो (तन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमर)नादः । श्च्योत (न्मदाविलविलोलपोलमूलमत्तभ्रमद्) भ्रमरनादेन विवृद्धः कोपो यस्य स श्च्यो (तन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोप) स्तम् ॥३४॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22