Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २०१०
शातकौम्भं तटं विभ्राजते । कथं ?, उच्चैः । शातकुम्भस्येदं शातकौम्भं - सौवर्णं तटमित्यर्थः । पुनः किंलक्षणं तटं ?, उद्यच्छशाङ्कशुचिनिर्झरवारिधारम् । निर्झराणां वारीणि नि ( र्झरवारी) णि । निर्झरवारीणां धारा नि ( र्झरवारि ) धारा । शशोऽङ्के यस्य स शशाङ्कः । उद्यंश्चासौ शशाङ्कश्च उ ( द्यच्छशाङ्कः । उद्यच्छशाङ्कवत् शुचयो निर्झरवारिधारा यत्र तत् उ ( द्यच्छशाङ्कशुचिनिर्झरवारि ) धारम् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त - मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥
छत्र० ॥ हे नाथ तव छत्रत्रयं विभाति । छत्राणां त्रयं छत्रत्रयम् । छत्रत्रयं किंलक्षणं ?, शशाङ्ककान्तम् । शशाङ्कवत् कान्तम् । पुनः - स्थितम् । कथं ?, उच्चैः । मूर्ध्नि स्थितमित्यर्थः । पुनः - स्थगित ( भानुकरप्र ) तापम् । भानोः करा भानुकरा: । भानुकराणां प्रतापः भानु (करप्र) ताप: । स्थगितो भानुकरप्रतापो येन तत् । पुन: किं (लक्षणं) ?, मुक्ता( फलप्रकरजालविवृद्धशो भम् ) । मुक्ताफलानां प्रकरो मुक्ताफलप्रकरः । मुक्ताफलप्रकरस्य जालं मुक्ताफलप्रकरजालम्) । मुक्ताफलप्रकरजालेन विवृद्धा शोभा यस्य तत् । छत्रत्रयं किं कुर्वत्?, प्रख्यापयत्-प्रकटयत् । किं कर्मतापन्नं ? परमेश्वरत्वम् । कस्य ?, त्रिजगतः॥३१॥ उन्निद्र हेमनवपङ्कजपुञ्जकान्ति
पर्युल्लसन्नखमयूखशिखाभिरामौ ।
पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः,
१५
पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥३२॥
)
उन्नि० ॥ हे जिनेन्द्र ! तव पादौ यत्र पदानि धत्तः । पादौ किंलक्षणौ ?, उन्निद्र ( हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभि रामौ । नवानि च तानि पङ्कजानि च न ( वपङ्कजा ) नि । हेम्नः नवपङ्कजानि । उन्निद्राणि च तानि हेमनवपङ्कजानि च । उन्निद्रहेमनवपङ्कजानां पुञ्जं, उन्निद्र हे (मनवपङ्कज)पुञ्जस्य कान्ति: उ ( न्निद्रहेमनवपङ्कजपुञ्जका)न्तिः । नखानां मयूखाः न(खमयू)खाः । नखमयूखानां शिखा न ( खमयूखशि) खा । पर्युल्लसन्त्यश्च ताः नख(मयूख)शिखाश्च प(र्युल्लसन्नखमयूख) शिखा:।उन्नि(द्रहेमनवपङ्कज)पुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखा उन्नि (द्र हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूख)शिखा: । उन्नि(द्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूख) शिखाभिः

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22