Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ सप्टेम्बर २०१० नि(धूम)वर्त्तिः । धूमो द्वेषः, वर्त्तिः कामदशा, ताभ्यां रहिते(त इ)त्यर्थः । पुनः कथम्भूतः ?, अपवर्जिततैलपूरः । [तैल]स्य पूरः तैलपूरः, अपवर्जितस्तैलपूरो येन सः०। त्यक्तस्नेहप्रकरः । अन्यच्च त्वं कृत्स्नं इदं जगत्त्रयं प्रकटीकरोषि । अप्रकटं प्रकटं करोषि प्र(कटीकरोषि) । अन्यच्च-त्वं जातु-कदाचित् मरुतां न गम्यः-न वशोऽसीति शेषः । मरुतां कथम्भूतानां ?, चलि[ताचलानाम्] । चलिता अचला यैस्ते च(लिताच)लास्तेषाम् ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ ___ नास्तं० ॥ हे मुनीन्द्र ! त्वं लोके सूर्यातिशायिमहिमा असि । सूर्यादतिशायी महिमा यस्य सः । यतः- कदाचिद् अस्तं न उपयासि । च राहुगम्यः न असि । राहुणा गम्य: रा(हुगम्यः) । तथा त्वं सहसा युगपदेव जगन्ति स्पष्टीकरोषि । अस्पष्टं स्पष्टं करोषि स्प(ष्टीकरोषि) । तथा त्वं अम्भोधरोदरनिरुद्धमहाप्रभावः न असि । अम्भोधरा मेघाः, तस्य(तेषां)? कुक्षिः, तेनाऽपहतो महान् प्रभावो यस्य सः ०। अम्भो धरन्तीति अम्भोधराः । अम्भोधराणामुदरं अ(म्भोधरोदरं) । महांश्चासौ प्रभावश्च म(हाप्रभावः) । अम्भोधरोदरे निरुद्धो महाप्रभावो यस्य सः अम्भो(धरोदरनिरुद्धमहाप्रभा)वः ॥१७॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्॥१८॥ नित्यो० ॥ हे जिनेन्द्र ! तव मुखाब्जं विभ्राजते । मुखमेव अब्जं मुखाब्जम् । मुखाब्जं किंविशिष्टं ?, अपूर्वशशाङ्कबिम्बम् । शशोऽङ्के यस्य स शशाङ्कः । शशाङ्कस्य बिम्बं शशाङ्कबिम्बम् । अपूर्वं च तत् शशाङ्कबिम्बं च अ(पूर्वशशाङ्क) बिम्बम् । किविशिष्टं मुखाब्जं ?, नित्योदयम् । नित्यं उदयो यस्य तत् । पुनः किविशिष्टं ?, दलितमोहमहान्धकारम् । महच्च तदन्धकारं च महान्धकारम् । मोह एव महान्धकारं मोह(महान्धकार) । दलितं मोहमहान्धकारं येन तत् द(दलितमोहमहान्धकारम्) । पुनः कथम्भूतं, गम्यं-वशंकरं न । कस्य ? राहुवदनस्य । राहोर्वदनं राहुवदनं तस्य । पुनः वारिदानां न गम्यम् । वारि ददतीति वारिदास्तेषां वारिदानाम् । पुनः किम्भूतं ?, अनल्पकान्ति । अनल्पा कान्तिर्यस्य तत् । मुखाब्जं किं कुर्वत् ?, विद्योतयत् - प्रकाशयत् ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22