Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ५२
त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥
त्वामव्ययं० ॥ हे मुनीन्द्र ! सन्तस्त्वां एवंविधं प्रवदन्ति । त्वां किंविशिष्टं ?, अव्ययम् । न विद्यते व्ययो यस्य सः० सर्वकालस्थितिकस्वभावम् । पुनः-विभुम् । पुनः - अचिन्त्यम् । चिन्तनार्हो () चिन्त्यः, न चिन्त्योऽचिन्त्यः तम् । आध्यास्मि(त्मि)कैरपि चिन्तितुमस(श)क्यः । पुनः-असङ्ख्यम् । न विद्यते संख्या यस्य सोऽसंख्यस्तं असङ्ख्यगुणैरपरिमितं इत्यर्थः । पुनः-आद्यम् । पुनः-ब्रह्माणम् । बृंहति-अनन्तानन्देन वर्द्धते इति ब्रह्मा, तम् । पुनः-ईश्वरं-नाथं इत्यर्थः । पुनः-अनन्तं, न विद्यतेऽन्तो यस्य स अनन्तस्तं मृत्युरहितमित्यर्थः । पुनः-अनङ्गकेतुमामनन्ति । अनङ्गे केतुरनङ्गकेतुस्तम्, कामनाशनमित्यर्थः । पुनः-योगीश्वरम् । पुनः-विदितयोगम् । विदितो योगो येन सः । पुनःअनेकम् । [न] एकोऽने कस्तम् । ज्ञानेन सर्वगतत्वात् । पुनः-एकं, जीवद्रव्याद्यपेक्षया। पुनः- ज्ञानस्वरूपम् । ज्ञानमेव स्वरूपं यस्य सः । क्षायिककेवलज्ञानमयम् । पुनः-अमलम् । न विद्यते मलो यत्र सोऽमलस्तम् ॥२४॥ बुद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधात्
त्वं शङ्करोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर ! शिवमार्गविधेविधानाद्
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ बद्ध० ॥ हे विबुधार्चित ! विबुधैरचितो विबुधार्चितस्तस्य सम्बोधनं हे विबुधार्चित !। त्वमेव बुद्धोऽसि । कस्मात् ?, बुद्धिबोधात् । मतिप्रकाशादित्यर्थः । बुद्धोधो बुद्धिबोधस्तस्मात् । त्वं शङ्करोऽसि । कस्मात् ?, भुवनत्रयशंकरत्वात् । भुवनानां त्रयं भु(वनत्र)यं । शं करोतीति शंकरः, शंकरस्य भावः शंकरत्वं, भुवनत्रयस्य शंकरत्वं भु(वनत्रयशंकर)त्वं, तस्मात् । हे धीर ! त्वं धाताऽसि । कस्मात् ?, विधानात् । कस्य ?, शिवमार्गविधेः । हे भगवन् ! व्यक्तं त्वमेव पुरुषोत्तमः असि । पुरुषेषूत्तमः ॥२५॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22