Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २०१०
किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥ मन्ये० ॥ हे नाथ ! यन्मया हरिहरादय एव दृष्टास्तद्वरं मन्ये । येषु दृष्टेषु त्वयि हृदयं तोषमेति । भवता वीक्षितेन किं स्यात् ? येन अन्यः कश्चिद् भवान्तरेऽपि भुवि मनो न हरति । एकस्माद् भवादन्यो भवो भ(वान्तरम्) ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नाऽन्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ स्त्रीणां० ॥ हे नाथ ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति । अन्या जननी त्वदुपमं सुतं न प्रसूता । तव उपमा यस्य स त्वदुपमस्तम् । अत्रोपमानं- सर्वा दिशः भानि दधति-धारयन्तीत्यर्थः । प्राच्येव दिग् स्फुरदंशुजालं सहस्ररश्मि जनयति-प्रसूते (ते इ) त्यर्थः । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तम् । स्फुरन्तश्च तेंऽशवश्च स्फुरदंशवः । स्फुरदंशूनां जालं स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ त्वामाम० । हे मुनीन्द्र ! मुनयस्त्वां परमं पुमांसं आमनन्ति । त्वां किम्भूतं ?, अमलं, न विद्यते मलो यस्य सोऽमलस्तम् । पुनः किम्भूतं ?,
आदित्यवर्णम् । आदित्यस्येव वर्णो यस्य स आ(दित्यवर्ण)स्तम् । कथं ?, परस्तात् । कस्य ? तमस्यः (सः) । त्वामेव सम्यग् उपलभ्य मुनयः मृत्युंकृतान्तभयं जयन्ति-स्फेटयन्ति । अन्यः शिवपदस्य शिवः-निरुपद्रवः पन्था नास्ति ॥२३॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22