Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ सप्टेम्बर २०१० यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ यैः शान्त० ॥ हे त्रिभुवनैकललामभूत ।। त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । एकं च तल्ललाम च एकललाम । त्रिभुवने एकललाम त्रिभुवनैकललाम। त्रिभुवनैकललामैव त्रिभुवनैकललामभूतस्तस्य सम्बोधनं हे त्रि(भुवनैकललाम)भूत ! । तेऽपि अणवः पृथिव्यां तावन्त एव वर्तन्ते । ते के?, यैः परमाणुभिस्त्वं निर्मापितः इति क्रियाकारकसण्टङ्कः । परमाणुभिः कथम्भूतैः ?, शान्तरागरुचिभिः । शान्तश्चासौ रागश्च शान्तरागः, शान्तरागस्य रुचिर्येषु ते शान्तरागरुचयः, तैः शान्तरागरुचिभिः । यद्-यस्मात् कारणात् ही( हि) निश्चितं ते-तव समानं अपरं रूपं नास्ति ॥१२॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ वक्त्रं० ॥ हे नाथ ! ते - तव वक्त्रं क्व वर्तते ? तथा निशाकरस्य बिम्बं क्व वर्तते ?। वक्त्रं कथम्भूतं ?, सुरनरोरगनेत्रहारि । सुराश्च नराश्च उरगाश्च सुरनरोरगाः । सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि । सुरनरोरगनेत्राणि हरन्तीत्येवं शीलं सुरनरोरगनेत्रहारि । पुनः कथम्भूतं ?, निःशेषनिर्जितजगत्त्रितयोपमानम् । जगतां त्रितयं जगत्रितयं, जगत्रितयस्योपमानानि जगत्रितयोपमानानि । निःशेष(षं) निर्जितानि जगत्रितयोपमानानि येन तत् । निशाकरस्य बिम्बं कथम्भूतं ?, कलङ्कमलिनम् । कलङ्केन मलिनं कालङ्कमलि) नम् । यत् चन्द्रबिम्बं वासरे पाण्डुपलाश[क]ल्पं भवति । पाण्डु च तत् पलाशं च पाण्डुपलाशं । पाण्डुपलाशस्य कल्पं जीणा(ण)पक्त(क्व)पाण्डुरवर्णपत्रसदृशं भवतीत्यर्थः ॥१३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ? ॥१४॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22