Book Title: Bhaktamarstava Churni Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ अनुसन्धान ५२ कषितनिखिलदोषमित्यर्थः । समस्ताश्च ते दोषाश्च स(मस्तदो)षाः । अस्ताः समस्ता(स्त)दोषा येन तत् अ(स्तसमस्त)दोषम् । दृष्टान्तमाह- सहस्त्रकिरणः दूरे अस्तु । सहस्त्रं किरण(णा)यस्य सः स(हस्रकिर)णः । प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि कुरुते इत्यन्वयः । जले जायन्ते इति जलजानि । विकाशं(सं) भजन्ते इति विकासभाञ्जि ॥९॥ नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तम् । तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याऽऽश्रितं य इह नात्मसमं करोति ॥१०॥ नात्य० ॥ हे भुवनभूषण !! भुवनस्य भूषणं भु(वनभू)षणं तस्य सं० । हे भूतनाथ !! भूतानां नाथो भूतनाथस्तस्य सं० । हे प्रभो ! भूतैः गुणैः भवन्तं अभिष्टवन्तः भवतस्तुल्या भवन्ति, एतन्न अत्यद्भुतम् । व्यतिरेकमाहननु निश्चितं वा अथवा तेन स्वामिना किं स्यात् । यः इह जगति आश्रितं आत्मसमं न करोति । आत्मनः समः आत्मसमस्तं । कया ? भूत्या-ऋद्ध्या ॥१०॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ दृष्ट्वा भ० ॥ हे प्रभो ! जनस्य चक्षुः अन्यत्र तोषं न उपयाति । किं कृत्वा ?, दृष्ट्वा अवलोस्य । कं कर्मतापन्नं ?, भवन्तं त्वामित्यर्थः । भवन्तं कीदृशं ?, अनिमेषविलोकनीयं । निर्निमेषेण विलोक्यते-दृश्यते इति अनिमेषविलोकनीयस्तं अ(निमेषविलोक)नीयम् । दृष्टान्तमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं असितुं क इच्छेत् ? इत्यन्वयः । अपि तु न कोऽपि । दुग्धसिन्धोः पयः कथम्भूतं ?, शशिकरद्युति । शशोऽस्यास्तीति शशी, शशिनः कराः शशिकराः, शशिकर(रा) इव द्युतिर्यस्य तत् शशिकरद्युति ॥११॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22