Book Title: Bhagwati Sutram Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 6
________________ श्रीभगवती सूत्रम् 'ते' मित्यादि ( सू० ७ ) तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जेट्टे 'ति प्रथमः 'अंतेवासी'ति शिष्यः 'इंदभूह' त्ति इन्द्रभूतिरिति मातापितृकृतनामा 'नाम' ति विभक्तिविपरिणामात् नाम्नेत्यर्थः, 'सत्तुस्सेहे' त्ति सप्तहस्तोच्छ्रयः 'वज्जरि सहनारायसंघयणे' त्ति | संहननं - अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम् - 'रिसहो य होइ पट्टो वज्रं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ॥ १ ॥ त्ति वचनात् वज्रर्षभनाराचसंहननः, 'कणग' त्ति कनकं - सुवर्ण तस्य यः पुलको - लवः तस्य यो निकष:कपपट्टके रेखालक्षणः 'पम्हले' त्ति पद्मपक्ष्माणि - केसराणि तद्वगौरो यः स तथा, 'उग्गतवे' त्ति उग्रं- अप्रधृष्यं तपः - अनश नादि यस्य सः उग्रतपाः, 'दित्ततवे 'ति दीप्तं - जाज्वल्यमानदहन इव कर्मवनगहन दहनसमर्थतया ज्वलितं तपो - धर्मध्यानादि यस्य स तथा, 'तत्ततवे 'ति तप्तं तपो येनासौ तप्ततपाः, 'ओराले'त्ति उदारः प्रधानः, 'घोरे' त्ति घोरो-निर्घृणः, परीपहेन्द्रि यादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, 'घोरगुणे' त्ति घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा, 'उच्छूढसरीरे' ति उच्छूढं-उज्झितं रज इव वपुर्येन तत्संस्कारत्यागात् स तथा, 'संखित्त'त्ति संक्षिप्ता - शरीरान्तलींनत्वेन ह्रस्वतां गता विपुला - अनेकयोजनप्रमाणक्षेत्राश्रितवस्तु दहनसमर्थत्वाद्विपुला विस्तीर्णा अनेकयोजनमाना तेजोलेश्या - तीव्रतपोलब्धिप्रभवा तेजोज्वाला यस्य स तथा, 'सव्वक्खर' त्ति सर्वे अक्षरसंनिपाता- वर्णोच्चाररूपास्ते यस्य ज्ञेयतया सन्ति, अदूरसामंते विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामंतं च- संनिकृष्टं तन्निषेधाददूरसामंत, नातिदूरे नातिनिकट इत्यर्थः, स किंभूत इत्याह 'उडुंजाणु' त्ति ऊर्द्ध जानुनी यस्य सः उत्कटुकासन इति, 'झाणकोह'त्ति ध्यानं धर्मध्यानादिकं तदेव कोष्ठः - कुशूलस्तत्र प्रविष्ट इति, 'उट्ठाए'त्ति ॥२॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 600