Book Title: Bhagwati Sutram Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 8
________________ श्रीभगवती १ शतके १ उद्देशः सूत्रम् सया पृष्टानि निर्णीतानि, अथैतानि चलनादीनि मिथः किं तुल्यार्थानि भिन्नानि वा इति पृच्छानिर्णय दर्शयितुमाह-'एएणं भंतेत्ति | इति व्यक्तम् , 'एगह'त्ति एकप्रयोजनानि च 'नाणाघोस'त्ति इह घोषा-उदात्तादयः 'नाणावंजण'त्ति व्यंजनानि-अक्षराणि | 'उदाहु'त्ति उताहो निपातो विकल्पार्थः 'नाणदृ'त्ति नानार्थानि, इह चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि, यथा क्षीरं क्षीरं १ तथा अन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इति २ तथा अन्यानि अनेकार्थानि एकव्यञ्जनानि | यथा अर्कगव्यमाहिषाणि क्षीराणि ३ तथा अन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटमुकुटलकुटशकटादीनि ४, एवं चतु भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको अत्र प्रश्नसूत्रे गृहीतौ, चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि पञ्च | पदान्याश्रित्य चतुर्थः, कथं आद्यानि चत्वारि पदान्येकार्थानीत्याशंक्याह-'उप्पन्नपक्खस्स'त्ति इह च षष्ठयास्तृतीयार्थत्वात्। उत्पन्नपक्षण, उत्पादपर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मक्षये फलद्वयं-केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादपक्षविषयत्वादेकार्थान्युक्तानि, तत् कथं ?-चलितं सत् उदीरयति, उदीरितं सत् वेद्यते, विदितं सत् अनुभूयते, (अनुभूतं सत्) प्रहीयते, तस्मादेकार्थान्येतानि, केवलोत्पादपक्षसाधकानीत्यर्थः, अथ शेषाणि अनेकार्थानि पञ्च पदानि प्रतिपादयितुमाह-'छिज्जमाणे त्ति छिद्यमानं छिन्नमितिपदं स्थितिबन्धाश्रयं, यतः सयोगिकेवली योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घस्थितिकानां सर्वापवर्तनया अन्तर्मुहूर्तकं स्थितिबन्धं कुर्यात् , भिद्यमानं भिन्नमितिपदमनुभागवन्धाश्रयं, तत्र यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति अतो रसघातकरणेन पूर्वमाद्भिन्नार्थं पदमेतत् , दह्यमानं दग्धमिति | पदं प्रदेशबन्धाश्रयं, अनन्तानां प्रदेशानां कर्मदलिकानां पञ्चहस्वाक्षरोच्चारणकालपरिमाणयाऽसंख्यातसमयया गुणश्रेणीरचनया पूर्व ॥३॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 600