Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 7
________________ श्रीभगवतीसूत्रम् उत्थानं उत्था - ऊर्ध्ववर्तनं तया उत्तिष्ठति 'आयाहिण' ति आदक्षिणात् - दक्षिणहस्तादारभ्य प्रदक्षिणं परितो भ्रमण आदक्षिणप्रदक्षिणं करोति 'बंद' त्ति वन्दते वाचा स्तौति 'नमंसह 'त्ति नमस्करोति 'पज्जुवास' त्ति पर्युपासीनः सेवमानः श्रीगौतम एवं वक्ष्यमाणप्रकारं वस्तु अवादीत्, 'से' इति तत् यदुक्तं पूज्यै: 'चलचलित' मित्यादि 'नूनं'ति निश्चितं 'चलमाणे चलिए 'ति (सू०९) चलत् — स्थितिक्षयादुदयमागच्छत् विपाकाभिमुखीभवदुदयत् कर्म तच्चलितं प्रोक्तम् १ 'उदीरिज 'त्ति उदीरणा नाम अनुदयप्राप्तं चिरेणागामिना कालेन यद्वेदयितव्यं कर्मदलिकं तदाकृष्योदये प्रक्षेपणमुदीरणा तया उदीर्यमाणं प्रथमसमयादिना कालेनोदीरितमुक्तं २ 'बेइज्जमाणे 'त्ति वेद्यमानं स्थितिक्षयादुदयं प्राप्तं उदीरणाकरणेन वोदयमुपनीतं आद्यसमयादिकालेन यत् कर्म लिकं तद्वेदितं स्यात् ३ 'पहिज्ज' त्ति प्रहाणं तु जीवप्रदेशेभ्यः, पतनसमये प्रहीयमाणं कर्म प्रहीणं स्यात् ४ 'छिजमाणे'त्ति छेदनं दीर्घकालकर्मस्थितिकानां हवतापादनं अपवर्तनाकरणेन कुर्यात्, तत् समये समये छिद्यमानं छिन्नं स्यात् ५ 'भिज्जमाणे 'ति भेदस्तु शुभाशुभकर्मणस्तीवरसस्यापवर्तनाकरणेन मन्दताकरणं, समये समये रसतो भिद्यमानं कर्म भिन्नम् ६ 'डज्झमाणे 'ति दाहस्तु कर्म दलिकदारूणां ध्यानाग्निना तद्रूपापनयनं कर्माभावजननं, तस्याप्यन्तर्मुहूर्तत्वेनासंख्यसमयस्यादिसमये दह्यमानं दग्धं ७ 'मिजमाणे 'त्ति म्रियमाणं आयुः कर्म मृतं मरणं ह्यायुः पुद्गलानां क्षयः, तच्चासंख्येयसमयवर्ति स्यात्, तस्य च जन्माद्यसमयादारभ्य आवीचिकमरणेन क्षणे क्षणे मरणसद्भावात् म्रियमाणं मृतम् ८ 'निज रिज' त्ति नितराम् - अपुनर्भावेन क्षीयमाणं कर्म निर्जीर्णमिति, निर्ज| रणस्यासंख्य समयभावित्वेन तत्प्रथमसमय एव निर्जीर्यमाणं निजीर्णम् ९, तदेवमेतान्नव प्रश्नान् गौतमेन वीरः पृष्टः सन्नुवाच - 'हंता गोयम' त्ति हंत इति एवमेतदिति अभ्युपगमवचनं, एवमेतानि नव पदानि कर्माधिकृत्य वर्तमानातीतकाल सामानाधिकरण्य जिज्ञा १ शतके १ उद्देशः

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 600