Book Title: Bhagwati Sutram Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 5
________________ श्रीभगवती सूत्रम् नमोsस्तु श्रुताय - द्वादशाङ्गीरूपायार्हत्प्रवचनाय । वण्णओत्ति (सू० ४ ) इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरव भयादिह तस्यालिखितत्वात् स चैवं- रिद्धत्थिमियसमिद्धे, रिद्धं - पुरभवनादिभिर्वृद्ध, | स्तिमितं - स्थिरं, स्वचक्रादिभयवर्जितत्वात्, समृद्धं - धनधान्यादिविभूतियुक्तत्वात् ततः पदत्रयस्य कर्मधारयः, 'पमुइयजणजाणवए' प्रमुदिता - हृष्टा जना- नगरवास्तव्याः जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादि| रौपपातिकात् सव्याख्यानोऽत्र दृश्यः, 'तस्स णं' ति षष्ठ्याः पञ्चम्यर्थत्वात् तस्माद्राजगृहानगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे' त्ति उत्तरपौरस्त्य दिग्भाग ईशानकुणिविदिग्भागे गुणशिलकं नाम चैत्यं - व्यन्तरायतनं 'होत्थ' त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति ।। तेणं कालेणं तेणं समएणं समणेत्ति (सू० ५ ) “श्रमु तपसि खेदे चे 'ति वचनात् श्राम्यति - तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, 'भगवं'ति भगवान् - ऐश्वर्यादियुक्तः, पूज्य इत्यर्थः, 'महावीरे' त्ति महांश्रासौ दुर्जयान्तररिपुतिरस्करणाद्वीरचेति महावीरः ' आदिकरे' त्ति आदितो धर्मम् - आचारादिश्रुतं करोतीत्यादिकरः 'सहसंबुद्धे' त्ति सह - आत्मनैव संबुद्धो, नान्योपदेशत इत्यर्थः 'धम्मवरचाउरंत' त्ति त्रयः समुद्राचतुर्थश्च हिमवान् एते चत्वारोऽन्ताः - पृथिव्यन्ताः तेषां स्वामी यथा चक्रवर्ती तथा भगवान् चतुर्धर्मचक्रवर्ती इति, 'तेण 'मित्यादि शक्रस्तवव्याख्यानं सुगमत्वान्न वित्रियते । शतके उद्देशःPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 600