Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 4
________________ श्रीभग १ शतके उद्देश: सूत्रम् वमस शास्त्रस्यैकश्रुतस्कंधरूपस्य सातिरेकाध्ययनशतमितस्य उद्देशकदशसहस्त्रीभूतस्य पत्रिंशतसहस्रप्रश्नप्रमितस्य अष्टाशीतिसहस्रा|धिकलक्षद्वयप्रमाणपदराशेर्मङ्गलादीनि दर्शितानि, अथ प्रथमशते ग्रन्थान्तरपरिभाषया अध्ययने च दशोदेशकाः स्युः,तद्गाथामिमामाह रायगिह चलण१ दुक्खेर कंखपओसे३ य पगइ४ पुढवीओशजावंते नेरइए७ बाले८ गुरुए९ य चलणाओ१०।१।। | 'रायगिहे ति लुप्तसप्तम्येकवचनत्वाद् राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्यार्थो वीरेण दर्शित इति व्याख्येयम् , एवमन्य त्रापि ज्ञेयम् , 'चलण'त्ति चलनविषयः प्रथमोद्देशकः, 'चलमाणे चलिए' इत्याद्यर्थनिर्णयार्थः १, 'दुक्खे'त्ति दुःखविषयो द्वितीयः | 'जीवा भदंत! स्वयंकृतं दुःखं वेदयन्ति ?' इति प्रश्ननिर्णयार्थः २, 'कंखपओसेत्ति कांक्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्या न्यदर्शनाभिलाषरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं कांक्षाप्रदोषः तद्विषयस्तृतीयः, 'जीवेन भदन्त ! कांक्षामोह|नीयं कर्म कृत'मित्यादिनिर्णयार्थः ३, "पगइ'त्ति प्रकृतयः-कर्मभेदाः, 'कति भदंत ! कर्मप्रकृतयः ?" इत्यादिनिर्णयार्थश्चतुर्थः ४, | 'पुढवीओ'त्ति 'कति भदंत ! पृथिव्यः ?' इत्यादिसूत्रवाच्यः पञ्चमः ५, 'जावंतेत्ति 'यावतो भदंत! आकाशान्तरात् सूर्य उदेति' इति षष्ठः ६, 'नेरइए'त्ति 'नैरयिको भदंत ! निरये उत्पद्यमान' इति सप्तमः ७, 'बालेत्ति 'एकान्तबालो भदंत मनुष्य' इति अष्टमः ८, 'गुरुए'त्ति 'कथं भदंत ! जीवा गुरुकत्वमागच्छन्ति' इति नवमः ९, च समुच्चयार्थः 'चलणाओ'त्ति बहुवचननि देशाच्चलनाद्या दशमोद्देशकस्याः , तत्सूत्रं चैवं-"अन्ययथिका भदंत ! एवमाख्यांति-'चलत् अचलित'मिति, सूत्रम् । प्रथमशतो| देशकसंग्रहणीगाथार्थः ॥ तदेवं कृतमङ्गलादिकृत्योऽपि प्रथमशतादौ विशेषात् मङ्गलमाह नमो सुयस्सत्ति (सू० ३) ॥१॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 600