SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् 'ते' मित्यादि ( सू० ७ ) तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जेट्टे 'ति प्रथमः 'अंतेवासी'ति शिष्यः 'इंदभूह' त्ति इन्द्रभूतिरिति मातापितृकृतनामा 'नाम' ति विभक्तिविपरिणामात् नाम्नेत्यर्थः, 'सत्तुस्सेहे' त्ति सप्तहस्तोच्छ्रयः 'वज्जरि सहनारायसंघयणे' त्ति | संहननं - अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम् - 'रिसहो य होइ पट्टो वज्रं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ॥ १ ॥ त्ति वचनात् वज्रर्षभनाराचसंहननः, 'कणग' त्ति कनकं - सुवर्ण तस्य यः पुलको - लवः तस्य यो निकष:कपपट्टके रेखालक्षणः 'पम्हले' त्ति पद्मपक्ष्माणि - केसराणि तद्वगौरो यः स तथा, 'उग्गतवे' त्ति उग्रं- अप्रधृष्यं तपः - अनश नादि यस्य सः उग्रतपाः, 'दित्ततवे 'ति दीप्तं - जाज्वल्यमानदहन इव कर्मवनगहन दहनसमर्थतया ज्वलितं तपो - धर्मध्यानादि यस्य स तथा, 'तत्ततवे 'ति तप्तं तपो येनासौ तप्ततपाः, 'ओराले'त्ति उदारः प्रधानः, 'घोरे' त्ति घोरो-निर्घृणः, परीपहेन्द्रि यादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, 'घोरगुणे' त्ति घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा, 'उच्छूढसरीरे' ति उच्छूढं-उज्झितं रज इव वपुर्येन तत्संस्कारत्यागात् स तथा, 'संखित्त'त्ति संक्षिप्ता - शरीरान्तलींनत्वेन ह्रस्वतां गता विपुला - अनेकयोजनप्रमाणक्षेत्राश्रितवस्तु दहनसमर्थत्वाद्विपुला विस्तीर्णा अनेकयोजनमाना तेजोलेश्या - तीव्रतपोलब्धिप्रभवा तेजोज्वाला यस्य स तथा, 'सव्वक्खर' त्ति सर्वे अक्षरसंनिपाता- वर्णोच्चाररूपास्ते यस्य ज्ञेयतया सन्ति, अदूरसामंते विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामंतं च- संनिकृष्टं तन्निषेधाददूरसामंत, नातिदूरे नातिनिकट इत्यर्थः, स किंभूत इत्याह 'उडुंजाणु' त्ति ऊर्द्ध जानुनी यस्य सः उत्कटुकासन इति, 'झाणकोह'त्ति ध्यानं धर्मध्यानादिकं तदेव कोष्ठः - कुशूलस्तत्र प्रविष्ट इति, 'उट्ठाए'त्ति ॥२॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy