Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-६३ अव० - १. असमः समरलीलायां लालसाभावो येषां, ईदृशा ये भावरूपाः च्छलपराः शत्रवो रागादयः, तत्सैन्यभङ्गात् यो रङ्गस्तं गमिष्यन्निवाऽङ्कमिषात् करीन्द्रधारी । अन्योऽपि यः शत्रुजयैषी स्यात् [स] करीन्द्रसङ्ग्रहं करोति, अस्त्वित्यध्याहार्यम् । २. भवजयी यो विजयाभूःश्रीअजितः । ३. रङ्गस्थानं सकलश्रीविषये । यथा नर्तक्यो रङ्गभूमौ लास्यलीलां कलयन्ति तथा विश्वश्रियः श्रीअजिते इत्यर्थः ॥२॥ भविविभुमभिवन्दे 'सम्भवं सम्भवन्तं,
निविडजडिमभङ्गेऽभङ्गरङ्गेण गेयम् । "तरणिहयवरेणाऽऽबद्धसेवं 'विबोधो
दयरयविरलाहङ्कारभारेण किन्नु ॥३॥ अ० – १. भविनां प्राणिनां प्रकरणात् गणभृदादिकानाम् । २. तृतीयं जिनम् । ३. निविडजडिम्नो भङ्गे सम्भवन्तं- घटमानम् इत्यर्थः, अर्थात् इन्द्रादिभिः। ४. अङ्ककैतवात् । ५. विशिष्टो बोध:- केवलज्ञानं तस्योदये तत्कालमेव लोकालोकव्यापकत्वात् यो रयः- वेगस्तेन विरल:- दूरीभूतः अहङ्कारभारो वेगविषयो यस्य ईदृशेनेव ॥३॥
'समसमयमिवाऽलं चञ्चलं चित्तमङ्का
. हरणहरिवरं वाऽचञ्चलीभावयन्तम् । उरसि विरसभावं हन्त! हन्तुं तुरीयं,
तमरिहरमणीयं धारणीयं धरेऽहम् ॥४॥ अ० – १. अत्यर्थं चपलं चित्तं तथा अङ्के आहरणं- आनयनं यस्य तं हरिवरं- कपिवरं च समसमयं- युगपत् अचञ्चलीभावयन्तं- स्थिरीकुर्वाणमिव । चित्तं कपिश्च प्रकृत्याऽतिचपले, तद्वयमपि स्वामिपार्वे सुस्थिरं दृश्यते इतीयमुत्प्रेक्षा। २. 'विरसभावं' प्रकरणात् सांसारिकक्लेशसम्भवं हन्तुम् । ३. हन्त इति प्रीतौ । यदाह शाकटायनः - "हन्त सम्प्रदान-प्रीति-विषादेषु" इति । ४. तुरीयं- चतुर्थं तं गुणैर्जगत्प्रसिद्ध अर्हद्वरं श्रीअभिनन्दननामानं उरसि इत्यस्योभयत्र सम्बन्धात्, उरसि धारणाहँ उरसि धरेऽहम् इति सण्टङ्कः ॥४॥ • १असमसमयपारावारपारीणरीण
च्छलचरणधुरीणच्छन्नमच्छिन्नमीडे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 198