SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ अव० - १. असमः समरलीलायां लालसाभावो येषां, ईदृशा ये भावरूपाः च्छलपराः शत्रवो रागादयः, तत्सैन्यभङ्गात् यो रङ्गस्तं गमिष्यन्निवाऽङ्कमिषात् करीन्द्रधारी । अन्योऽपि यः शत्रुजयैषी स्यात् [स] करीन्द्रसङ्ग्रहं करोति, अस्त्वित्यध्याहार्यम् । २. भवजयी यो विजयाभूःश्रीअजितः । ३. रङ्गस्थानं सकलश्रीविषये । यथा नर्तक्यो रङ्गभूमौ लास्यलीलां कलयन्ति तथा विश्वश्रियः श्रीअजिते इत्यर्थः ॥२॥ भविविभुमभिवन्दे 'सम्भवं सम्भवन्तं, निविडजडिमभङ्गेऽभङ्गरङ्गेण गेयम् । "तरणिहयवरेणाऽऽबद्धसेवं 'विबोधो दयरयविरलाहङ्कारभारेण किन्नु ॥३॥ अ० – १. भविनां प्राणिनां प्रकरणात् गणभृदादिकानाम् । २. तृतीयं जिनम् । ३. निविडजडिम्नो भङ्गे सम्भवन्तं- घटमानम् इत्यर्थः, अर्थात् इन्द्रादिभिः। ४. अङ्ककैतवात् । ५. विशिष्टो बोध:- केवलज्ञानं तस्योदये तत्कालमेव लोकालोकव्यापकत्वात् यो रयः- वेगस्तेन विरल:- दूरीभूतः अहङ्कारभारो वेगविषयो यस्य ईदृशेनेव ॥३॥ 'समसमयमिवाऽलं चञ्चलं चित्तमङ्का . हरणहरिवरं वाऽचञ्चलीभावयन्तम् । उरसि विरसभावं हन्त! हन्तुं तुरीयं, तमरिहरमणीयं धारणीयं धरेऽहम् ॥४॥ अ० – १. अत्यर्थं चपलं चित्तं तथा अङ्के आहरणं- आनयनं यस्य तं हरिवरं- कपिवरं च समसमयं- युगपत् अचञ्चलीभावयन्तं- स्थिरीकुर्वाणमिव । चित्तं कपिश्च प्रकृत्याऽतिचपले, तद्वयमपि स्वामिपार्वे सुस्थिरं दृश्यते इतीयमुत्प्रेक्षा। २. 'विरसभावं' प्रकरणात् सांसारिकक्लेशसम्भवं हन्तुम् । ३. हन्त इति प्रीतौ । यदाह शाकटायनः - "हन्त सम्प्रदान-प्रीति-विषादेषु" इति । ४. तुरीयं- चतुर्थं तं गुणैर्जगत्प्रसिद्ध अर्हद्वरं श्रीअभिनन्दननामानं उरसि इत्यस्योभयत्र सम्बन्धात्, उरसि धारणाहँ उरसि धरेऽहम् इति सण्टङ्कः ॥४॥ • १असमसमयपारावारपारीणरीण च्छलचरणधुरीणच्छन्नमच्छिन्नमीडे । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy