Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ . 16 . अनुसन्धान ३४ २१ - श्रीनमिनाथस्तुतिः (चन्दनप्रकृतिच्छन्दः) जिनेशपावकध्यानाऽत्यमलतरमतिरभिनवगुताः, सदा नमे ! पदाम्भोजं तव शमविदलितकलुषकणः । भजामि विश्ववात्सल्यं चरमपरमपदसुखकरणं, भवाब्धिमग्नभव्यौघप्रवहणसदृशविहितशरणम् ॥१॥ दिशन्तु मां जिनाः सौख्यं कलिमलदलगलितकलं, व्यथाप्रथापथातीतामदमदनखलविदलितथलम् । समस्तवासवार्चाऽर्हाः शमसंयमनियमपरिकलिताः, प्रभूतलक्ष्मणाकीर्णाश्चलननलिननतजनफलिताः ॥२॥ जिनोदितं ममेष्टार्थं वितरतु यमशमगमललितं, प्रकामभाग्यसंस्कारप्रकटितशुभफलमुनिमिलितम् । विचारसारसम्भारप्रथनकथितसुकृतकलफलं, समग्रभावसूचाया अतिविदितविषज्ञधरणितलम् ॥३॥ सशासनोन्नतिप्रह्वो भृकुटिरिति विबुधजनविदितं, नमे(जिष्यतां प्राप्तः सततमिति यतिपतिनिगदितम् । करोतु तन्ममाधानं शिवसदनगमनरसिकजने, वरेण्यलक्षणोपेताभयदपदयुगलविधृतमने ॥४॥ २२ - श्रीनेमिनाथस्तुतिः (महास्रग्धराछन्दः)2 जिनपं भावेन वन्दे सुरनरमहितं मान(नि)नीसङ्गशून्यं, प्रहतक्रोधप्रतापं प्रमुदितमनसं ध्यानचित्तादशून्यम् । मथिताजन्यं प्रसन्नं विदलितमदनं शाश्वतश्रीनिदानं, सुकृताद्वैतप्रपन्नातिहरणविदुरं शङ्खलक्ष्मप्रधानम् ॥१॥ सकलार्थाः साधिता यैस्त्रिभुवनविनतास्तीर्थपाः सन्तु सिद्ध्यै, सतताभिप्रायविज्ञाः शमदमनिचिता ज्ञानसन्तानवृद्ध्यै । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66