Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ नवेम्बर अक्षयमुख्याः सर्वाः सहल्लब्धय इह पृथ्वीविदिततरायास्तदमत्रं, मुख्यगणाधीशो धेयान्मां विपदपतन्तमतिपरिपूर्णः सुचरित्राम् ॥१॥ तीर्थकरास्ते भूयासुर्मां परमपदाप्त्यै सुरनरनूताः शमपूताः, केवलचिद्रूपालोकालोकितभुवना भोगविरतचित्ता भ्रमधूताः । पातकजातानेकासातप्रकरकुबाधाव्यथितजनानां रतिकाराः, सुरतपूर्त्या नेत्रानन्दप्रथनसुधीदीधितिसमयादाः समताराः ||२|| आगमवाक्यं साधु श्रेष्ठैर्विदुरजनानामुपकृतिहेतोरुपनीतं, बादरसूक्ष्मप्राणाजीवप्रमुखविचारव्रजभृतमध्यचरजीतम् । ज्ञानदयादानव्याख्यानाद्यनणुगुणाली ग्रथितसुशास्त्रं गतदोष, कर्णपुटाभ्यां यैरानिन्ये भविकनरास्ते शिवसुखमीयुः कृतजोषम् ||३|| शासनदेवा देव्यः सर्वा मुनिनिवहानामचलसुखं ते जिनभक्ता, ये हतदुष्टव्राताः कुर्युर्यमनियमाचारनयरतानां रसरक्ताः । पण्डितलक्ष्मीकल्लोलस्पर्शननिपुणा निर्मथितविकारा अतिशिष्टाः, स्वीकृतसन्धानिर्वाहा: सज्जनपरमानन्दपदनिदानाहितकष्टाः ॥४॥ 1 [ अथ स्तुतिकृतो नामनिर्देशकं वृत्तम्- ] एवं श्रीजिनपुङ्गवाः स्तुतिपथं नीताश्चतुर्विंशतिः, श्रीमद्वीरविनेयगौतमयुताः सद्वर्द्धमानाक्षरैः । वृत्तैर्निर्भरभक्तिसम्भृतमनोवृत्त्या मया काम्यया, मुक्तिस्त्रीपरिरम्भणस्य कमलाकल्लोलमेधाविना ॥१॥ इति श्रीप्रतिस्तुतेजिनसङ्ख्याप्रमाणवर्द्धमानाक्षरा अनुप्रासालङ्कारमय्यश्च श्रीगौतमगणधरस्तुतियुताश्चतुर्विंशत्यर्हतां स्तुतयः पूर्वाचार्यैरकृतपूर्वी विनोदमात्रतया मया कृतपूर्वी उ० श्री ५ श्रीहर्षकल्लोलप्रसादात् । Jain Education International 19 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66