Book Title: Anusandhan 2005 11 SrNo 34
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ 18 अनुसन्धान ३४ प्रमोदपरिपूरिता जनितजैनलोकप्रकाण्डोल्लसत्सम्पदा, मनीषिजनतास्तुता विशदबुद्धिसंसिद्धिसर्वद्धिसिद्धिप्रदा ॥४॥ २४ - श्रीवर्द्धमानजिनस्तुतिः (विभ्रमगतिच्छन्दः)24 सिद्धार्थान्वयमण्डनं जिनपतिस्त्रैलोक्यचूडामणिजितपावकः, पञ्चास्याङ्कितभूघनो घनगभीरध्वानविस्तारयुगादघातकः । संसारार्णवसेतुबन्धसदृशः सिद्ध्यङ्गनासङ्गमी गतकन्दलः, जीयाद्यः कमनप्रतापहननस्थाणूपमप्राणभृच्छमशम्बलः ॥१॥ सर्वे सार्वचयाः सुपर्वनिचयाधीशप्रमोदस्तुताहितवाचकाः, चारित्रावसरापवर्जनकला दारिद्रविद्रावणोद्धृतयाचकाः । जीयासुः प्रतिकृष्टकर्मनिकरच्छेदोद्यता: पादपूतरसातलाः, प्रोन्मीलत्कमनीयकान्तिकलितास्तत्त्वार्थविद्भास्करप्रग्रहामलाः ॥२॥ यज्जैनेन्द्रवचः प्रभावभवनं दुर्वादिगर्वापहं जनपावनं, सेवे शान्तरसामृतोद्भवमहं पुण्याङ्कराोधरं शुभभावनम् । शुद्धाचारनिरूपणव्रतधनस्वर्गापवर्गप्रदं मतिमिश्रितं, सर्वात्मप्रतिपालनासु ललितं कुन्मानमायाहृति व्रतिसंश्रितम् ॥३॥ मातङ्गोऽर्हदुपासकः प्रकुरुतात् श्वःश्रेयसं प्राणिनां सुमनोवराः, श्रीसङ्घस्य कृपाकरो मुनिमनःश्रेणीसमुल्लासकः सुमनोहरः । मातङ्गोपरिसंस्थितो भुजयुगः श्यामः सकर्णावली नुतलक्षणः, सर्वप्राण्युपकारकारणकलासक्तः सुदृष्टिः सदाऽतिविचक्षणः ॥४॥ २५ - श्रीगौतमगणधरस्तुतिः ज्ञाततनूजाद्यान्तेवासी सकलचरित्रादिगुणनिधानं हितकर्ता, गौतमनामा दीव्यद्धामा विमलयशःकायवसुमतीपीठविहर्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66