________________
.
16
.
अनुसन्धान ३४
२१ - श्रीनमिनाथस्तुतिः
(चन्दनप्रकृतिच्छन्दः) जिनेशपावकध्यानाऽत्यमलतरमतिरभिनवगुताः, सदा नमे ! पदाम्भोजं तव शमविदलितकलुषकणः । भजामि विश्ववात्सल्यं चरमपरमपदसुखकरणं, भवाब्धिमग्नभव्यौघप्रवहणसदृशविहितशरणम् ॥१॥ दिशन्तु मां जिनाः सौख्यं कलिमलदलगलितकलं, व्यथाप्रथापथातीतामदमदनखलविदलितथलम् । समस्तवासवार्चाऽर्हाः शमसंयमनियमपरिकलिताः, प्रभूतलक्ष्मणाकीर्णाश्चलननलिननतजनफलिताः ॥२॥ जिनोदितं ममेष्टार्थं वितरतु यमशमगमललितं, प्रकामभाग्यसंस्कारप्रकटितशुभफलमुनिमिलितम् । विचारसारसम्भारप्रथनकथितसुकृतकलफलं, समग्रभावसूचाया अतिविदितविषज्ञधरणितलम् ॥३॥ सशासनोन्नतिप्रह्वो भृकुटिरिति विबुधजनविदितं, नमे(जिष्यतां प्राप्तः सततमिति यतिपतिनिगदितम् । करोतु तन्ममाधानं शिवसदनगमनरसिकजने, वरेण्यलक्षणोपेताभयदपदयुगलविधृतमने ॥४॥
२२ - श्रीनेमिनाथस्तुतिः
(महास्रग्धराछन्दः)2 जिनपं भावेन वन्दे सुरनरमहितं मान(नि)नीसङ्गशून्यं, प्रहतक्रोधप्रतापं प्रमुदितमनसं ध्यानचित्तादशून्यम् । मथिताजन्यं प्रसन्नं विदलितमदनं शाश्वतश्रीनिदानं, सुकृताद्वैतप्रपन्नातिहरणविदुरं शङ्खलक्ष्मप्रधानम् ॥१॥ सकलार्थाः साधिता यैस्त्रिभुवनविनतास्तीर्थपाः सन्तु सिद्ध्यै, सतताभिप्रायविज्ञाः शमदमनिचिता ज्ञानसन्तानवृद्ध्यै ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org