Book Title: Anusandhan 2002 09 SrNo 21
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 8
________________ ओक्टोबर २००२ प्रमाणस्यैकांशः । यत: नाऽप्रमाणं प्रमाणं वा प्रमाणांशस्तथैव हि । नाऽसमुद्रः समुद्रो वा समुद्रांशो यथैव हि ।। समस्तांशस्थानं प्रमाणं, तदेकांशो नयः । प्रमाणनयैः सकलभावाभिगमो भवति । नयाः सप्त । नै(ने)गम १ संग्रह २ ववहार ३ उज्जुसुए ४ चेव होइ बोधव्वे । सद्दे य ५ समभिरूढे ६ एवंभूते ७ य मूलनया ॥ ____ अथ नैगमार्थमाह- समस्तवस्तु सामान्येन विशेषेण च मन्यते, न केवलं सामान्येन न केवलं विशेषेण, उभाभ्यां प्रकाशनाभ्यां मन्यते नैगमः । सकलभुवनत्रयमध्यवर्तिवस्तुकदम्बकस्य ग्राहकः स सामान्यधर्म : एक एव । शैवन्यायशास्त्रेऽप्युक्तमस्ति "नित्यमेकमनेकवृत्ति सामान्यम् । तथाहिघटत्वपटत्वमनुष्यत्वाः ।" तथा जैनन्यायशास्त्रेऽपि सामान्यलक्षणं - "अप्रच्युतानुत्पन्नस्थिरैकरूपं हि सामान्यं द्रव्यं शाश्वतिकम् ।" यथा मृत्तिकापर्याया घटशरा[वा]दयः उत्पादविनाशधर्माः, तैः कृत्वा सामान्यद्रव्यमस्थिरमस्ति, अनेकरूपतां भजति । अथ विशेषलक्षणं-शैवनये सामान्यव्यावर्तिधर्माणो हि विशेषाः । जैननये विशेषलक्षणं पूर्वपूर्वाकारपरित्यागोत्तरोत्तरपरिस्फूर्तिमन्तो हि विशेषाः । पर्यायापरनामानः ते घटपटलकुटमुकुटादयः तथा नरनारक सुरादयः । सामान्यविशेषवस्तुस्वरूपप्ररूपको नैगमनयः । जैन अपि वस्तुनि धर्मद्वयं मन्यन्ते सामान्यं विशेषश्च । सामान्य विना विशेषो न स्यात्, विशेषं विना सामान्यं न स्यात् । “निर्विशेषं हि सामान्यं भवेत् शशविषाणवत्" इति वचनात् ॥ सामान्यविशेषसप्तभङ्गी वस्तु स्यात् सामान्यं १, स्यादवक्तव्यं ४, स्याद् विशेषं २, स्यादवक्तव्यं क्रमतः सामान्यकल्पनया ५, स्यात् सामान्यविशेषं ३, स्यादवक्तव्यं क्रमतो विशेषकल्पनया ६, स्यादवक्तव्यं युगपत् सामान्य विशेष कल्पनया ७ इति । वस्तुनि कथञ्चित् प्रकारेण सामान्यद्रव्यधर्मत्वमस्तीति प्रथम भङ्गार्थः ।। तथा तस्मिन्नेव वस्तुनि कथञ्चित् प्रकारेण विशेषधर्मपर्यायोऽपि स्यादिति द्वितीयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74