Book Title: Anusandhan 2002 09 SrNo 21
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
ऑक्टोबर २००२
५३
(४)
__ॐ अर्ह आत्मासि, जीवोऽसि, समकालोऽसि, समचित्तोऽसि, समकर्मासि, समाश्रयोऽसि, समदेहोऽसि, समक्रियोऽसि, समस्नेहोऽसि, समचेष्टितोऽसि, समाभिलाषोऽसि, समेच्छोऽसि, समप्रमोदोऽसि, समविषादोऽसि, समावस्थोऽसि, समनिमित्तोऽसि, समवचा असि, समक्षुत्तृष्णोऽसि, समगमोऽसि, समागमोऽसि, समविहारोऽसि, समविषयोऽसि, समशब्दोऽसि, समरूपोऽसि, समरसोऽसि, समगन्धोऽसि, समस्पर्शोऽसि, समेन्द्रियोऽसि, समाश्रवोऽसि, समबन्धोऽसि, समसंवरोऽसि, समनिर्जरोऽसि, सममोक्षोऽसि, तदेह्येकत्वमिदानीं अहँ ॐ ॥ (३६-१)
(५) ॐ रं रं री रौं र: नमोऽग्नये, नमो बृहद्भानवे, नमोऽनन्ततेजसे, नमोऽनन्तवीर्याय, नमोऽनन्तगुणाय, नमो हिरण्यरेतसे, नमः छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ २, अवतर २, उत्तिष्ठ २, स्वाहा ॥ (३६--
(६) ___ ॐ अहँ ॐ अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैर्ऋतिं वरुणं वायुं कुबेरमीशानं नागान् ब्रह्माणं लोकपालान्, ग्रहांश्च सूर्यशशिकुजसौम्यबृहस्पतिकविशनिराहुकेतूनसुरांश्चासुरनागसुवर्णविद्युदग्निद्वीपोदधिदिक्कुमारान् भवनपतीन् पिशाचभूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्रार्कग्रहनक्षत्रतारकान् ज्योतिष्कान सौधर्मेशान श्रीवत्साखंडलपद्मोत्तरब्रह्मोत्तरसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतग्रैवेयकानुत्तरभवान् वैमानिकान् इन्द्रसामानिकान् पार्षद्यत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्ति-काभियोगिकभेदभिन्नांश्चतुर्णिकायानपि सभार्यान् साधुधवलवाहनान् स्वस्वोपलक्षितचिह्नान्, अप्सरसश्च परिगृहीतापरिगृहीताभेदभिन्ना ससखीकाः सदासीकाः साभरणा रुचकवासिनीदिक्कु मारिकाश्च सर्वाः, समुद्रनदीगिर्याकरवन-देवतास्तदेतान् सर्वांश्च, इदं अर्घ्यं पाद्यमाचमनीयं बलि चरुं हुतं न्यस्तं ग्राहय २, स्वयं गृहाण २ स्वाहा अहँ ॐ ॥ (३६-२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74