Book Title: Anekantvada pravesh
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
तेन प्राप्तेन सर्वं प्राप्तम् करूस
एको भिक्षुः राजद्वारं प्राप्तः । स्वीयसमस्याञ्च पुत्कुर्वन् प्रकथितवान्
44
मुषितोऽहं.... मुषितोऽहं.... मम सर्वस्वं गतम् ।
(७)
मम वस्त्रम्, मम शय्या, मम छत्रं, ममाधोवस्त्रं,
ममोपरि वस्त्रम्.... सर्वमपि गतम्, दरिद्रोऽहमभवम् ॥"
तेन च राज्ञे साश्रु निवदितं यदुत "कृपां कृत्वा राजन् ! आरक्षकान् आज्ञापयन्तु भवन्त:, प्रापयन्तु च मम मुषितभागम् स्वीकृता विज्ञप्तिः राज्ञा , दत्तश्च अवष्टम्भः तस्मै ॥
राज्ञादिष्टाः ससैनिकाः आरक्षकाः महाप्रयत्नेन तस्करं गृहीत्वा समुपस्थिताः । तस्य तस्करस्य च पार्श्वे एको महत्पटो मिलितः, स च अर्पितः भिक्षवे । भिक्षुः च तं आदरेण गृहीत्वा सहास्यं गन्तुमारब्धः ॥
राज्ञा च पृष्टः- ‘अधुना तु एकमेव लब्धं मुषितद्रव्यम्,
अन्यत् त्वधुनापि अन्वेषणीयमस्ति' ।
स त्ववक् - ‘लब्धं मया सर्वमपि मुषितद्रव्यम्, न किञ्चिदवशिष्टमधुना' । राजा च साश्चर्यं उवाच 'कथम् ?' ।
-
तेन च सरलया गिरा प्रथितम्
'मम एक एव पटः सर्वकार्यं साधयति' इति ।
-
Jain Education International
"
इदमत्र रहस्यम् - एकस्मिन् पटे सन्ति बहवो धर्माः, अयमेव
अनेकान्त:, एकस्मिन् वस्तुनि सन्ति अनेकधर्माः इति कृत्वा ॥
लोके धर्मे व्यवहारे च सर्वत्रापि अनेकान्तात्मकव्यवस्था एव बलीयसी श्रेयसी च । तां विना न कापि व्यवस्था सङ्गतिमङ्गेत् ।
C
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 240