SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तेन प्राप्तेन सर्वं प्राप्तम् करूस एको भिक्षुः राजद्वारं प्राप्तः । स्वीयसमस्याञ्च पुत्कुर्वन् प्रकथितवान् 44 मुषितोऽहं.... मुषितोऽहं.... मम सर्वस्वं गतम् । (७) मम वस्त्रम्, मम शय्या, मम छत्रं, ममाधोवस्त्रं, ममोपरि वस्त्रम्.... सर्वमपि गतम्, दरिद्रोऽहमभवम् ॥" तेन च राज्ञे साश्रु निवदितं यदुत "कृपां कृत्वा राजन् ! आरक्षकान् आज्ञापयन्तु भवन्त:, प्रापयन्तु च मम मुषितभागम् स्वीकृता विज्ञप्तिः राज्ञा , दत्तश्च अवष्टम्भः तस्मै ॥ राज्ञादिष्टाः ससैनिकाः आरक्षकाः महाप्रयत्नेन तस्करं गृहीत्वा समुपस्थिताः । तस्य तस्करस्य च पार्श्वे एको महत्पटो मिलितः, स च अर्पितः भिक्षवे । भिक्षुः च तं आदरेण गृहीत्वा सहास्यं गन्तुमारब्धः ॥ राज्ञा च पृष्टः- ‘अधुना तु एकमेव लब्धं मुषितद्रव्यम्, अन्यत् त्वधुनापि अन्वेषणीयमस्ति' । स त्ववक् - ‘लब्धं मया सर्वमपि मुषितद्रव्यम्, न किञ्चिदवशिष्टमधुना' । राजा च साश्चर्यं उवाच 'कथम् ?' । - तेन च सरलया गिरा प्रथितम् 'मम एक एव पटः सर्वकार्यं साधयति' इति । - Jain Education International " इदमत्र रहस्यम् - एकस्मिन् पटे सन्ति बहवो धर्माः, अयमेव अनेकान्त:, एकस्मिन् वस्तुनि सन्ति अनेकधर्माः इति कृत्वा ॥ लोके धर्मे व्यवहारे च सर्वत्रापि अनेकान्तात्मकव्यवस्था एव बलीयसी श्रेयसी च । तां विना न कापि व्यवस्था सङ्गतिमङ्गेत् । C For Personal & Private Use Only www.jainelibrary.org
SR No.004057
Book TitleAnekantvada pravesh
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy