Book Title: Alankar Kaustubh
Author(s): Ravishankar Nagar
Publisher: Parimal Publications

View full book text
Previous | Next

Page 432
________________ ३८५ अलहारकौस्तुभः । पुनरातो यथा-प्रेयसि ! राधे ! कथं ममोरी मति भूमावुपविष्यते ? तथाहि- जकः पीठ,मुरो विलासशयनं, लीलोपधानं भुजौ, खेलान करपल्लवो, मणिमयादर्श: कपोलस्थली । पाचम्यं वदनाम्बुजासवरमः, खेच्छोपदंशोऽधरो, मन्म सिस्तव वनभे ! मधुमतीसिद्धिः स्वयं साधिता ॥ ८३ पत्र कन्दर्पमञ्जरीनाटिकायां चूर्णिकायां 'प्रेयसी' ति सम्बोधने सति पुनर्वसभे' इति सम्बोधन अर्थपौनरुक्तंय, तेन चूर्गिकायाम् 'अयोति सम्बोधने सति दोषहानिः । 'मधुमतीसिद्धिरित्यत एव समाप्यते चेत्तथाऽपि 'स्वयं साधितेति निर्वाहें पूरणकारी दोषः । एवं 'मधुमतीति सामान्ये मविशेष:'मन्मतिरिति विवक्षिते सति सनियमेऽनियम:-तेन 'मधुमती काऽप्येव सिरिः परति चेत् क्रियते तदा पूरणकारिदोषहानिः, कित्त्वनियम मनियमो दोषः । तन्त्रेण चत्वारो दोषा दर्शिताः । तेन 'प्रायोऽयं मम विग्रहः खलु तव कोडोपहारः पर' इति पाठे सर्वदोषहानिः । किञ्चास्य टतीयचरणं चेच्चतुर्थचरणं भवति तदा दुष्कमदोषोऽपीति। किञ्च 'प्रायोऽयं मम काय एव हि मया भोगाय ते कल्पित' इति चेत् ग्राम्योऽपि । संशयितः सन्दिग्धो यथा तृदेशमासाद्य निषेवणीयं किमत्र तत्रोपदिशन्तु भव्याः । गोविन्द पादाम्बुरुहासवः किं स्त्रीरत्नवक्ताम्बुरुहासवः किम् ॥ ८४ पत्र शान्तशृङ्गारयोः शान्तस्यैवोपदेश्यत्वादसन्दिग्धले (१०) प्रश्नो दोषः । 'तकिया' इति प्रसिहसपाधानम् । भर्जितगोधमादय 'उपदंश'पदवाच्या: । मधुमतीसिहि: कामोन्मत्तताजनक यन्मादक वस्तु तत्सम्यादनीया सिद्धिस्तद्रूपेत्यर्थः। स्वयं साधिता खतःसिवा । सामान्य इति-पीठशय्यालीलाकमलादिसर्व वस्तुसम्पादनीया (2) सिद्धिस्तद्र पा श्रीक्षणामूर्तिरिति सामान्ये वक्तव्ये 'मधुमतीति विशेषनिट शात् सामान्ये सविशेषरुपो दोषः। प्रायोऽयमिति–'काय'शब्दस्याधोऽङ्गविशेषबोधकत्वेन ग्राम्यरूपी दोघो शेयः । (९) 'खोलाकमलादिसम्पादनौयति' (छ) पुस्तके पाठः। (१०) -खादसन्दिग्धे इति (ख) (क) पुसकयोः पाठः ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448