Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ उद्देशकः३, मूलं-९७, [भा. ४४२१] प्रतीपक्रमेणाचार्यादीनांवक्तव्यम्,आचार्यस्य भिन्नमासः, अभिषेकस्यलघुमासः, भिक्षोश्चतुर्लघवः, क्षुल्लकस्य चतुर्गुरु इति भावः । एष सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति[भा.४४२२] आयरियस्सायरियं, अनुट्ठियंतस्स चउगुरू होति । वसभे भिक्खू खुड्डे, लहुगा लहुगो य भिन्नो य॥ वृ- आचार्यस्याचार्य प्राघूर्णकमायान्तमनुत्तिष्ठतश्चतुर्गुरवो भवन्ति, वृषभमनभ्युत्तिष्ठतश्चतुर्लघुकाः, भिक्षुमनत्तिष्ठतो लघुमासः, क्षुल्लकमनुत्तिष्तो भिन्नमासः।। एवमाचार्यास्य प्रायश्चित्तमुक्तम् । अथ शेषाणामतिदिशति[भा.४४२३] सट्ठाण परट्टाणे, एमेव य वसह-भिक्खु-खुड्डाणं । जंपरठाणे पावइ, तं चेवय सोहि सट्ठाणे॥ वृ-एवमेव वृषभ-भिक्षु-क्षुल्लकानामपि स्वस्थान-परस्थानप्रायश्चित्तंवक्तव्यम्। स्वस्थाननामवृषभस्य वृषभः, परस्थानं वृषभस्याचार्य-भिक्षु-क्षुल्लकाः; एवं भिक्षु-क्षुल्लकयोरपि स्वस्थानपरस्थानभावना कर्तव्या । अत्र च यत् परस्थाने आचार्य प्राप्नोति तदसावपिवृषभादि स्वस्थाने प्राप्नोति।किमुक्तंभवति?-वृषभस्य प्राघूर्णकचार्यमनभ्युत्तिष्ठतश्चतुर्गुरुकाः वृषभस्यानभ्युत्थाने चतुर्लघवः, भिक्षोरनभ्युत्थाने मासलघु, क्षुल्लकस्यानभ्युत्थाने भिन्नमासः; एवं भिक्षु-क्षुल्लकयोरपि मन्तव्यम् । अत्र परस्थानमाचार्यस्य वृषभादयः, तेषामनभ्युत्थाने यथाऽसौ चतुर्लघुकादिकमापन्नवान् तथा वृषभादयोऽपि स्वस्थानमनभ्युत्तिष्ठन्तस्तदेव प्राप्नुवन्ति ॥ अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयन्नाह[भा.४४२४] दोहि वि गुरुगा एते, आयरियस्सा तवेन कालेन । तवगुरुगा कालगुरू, दोहि विलहुगा य खुड्डुस्स ॥ वृ-आचार्यस्य ‘एतानि' चतुर्गुरुकादीनि प्रायश्चित्तानि द्वाभ्यामपि गुरुकाणि कर्त्तव्यानि, तद्यथा-तपसा कालेनच। वृषभस्य तपोगुरुकाणि, भिक्षोः कालगुरुकाणि, क्षुल्लकस्य द्वाभ्यामपि' तपः-कालाभ्यां लघुकानि॥ [भा.४४२५] अहवा अविसिट्ठ चिय, पाहुणयाऽऽगंतुए गुरुगमादी। पाति अनुटुिंता, चउगुरु लहुगा लहुग भिन्नं ।। कृ'अथवा इतिप्रायश्चित्तस्य प्रकारान्तरताद्योतकः। अविशिष्टमेव' आचार्यादिविशेषैर्विरहितं प्राघूर्णकमागन्तुकमनत्तिष्ठन्तः 'गुर्वादयो' आचार्यप्रभृतयो यथाक्रमंचतुर्गुरुक-चतुर्लघुकलघुमासभिन्नमासान् प्राप्नुवन्ति । तद्यथा-आचार्यस्य यं वा तं वा प्रघूर्णकमागतमनभ्युत्तिष्ठतशचतुर्गुरु वृषभस्य चतुर्लघु, भिक्षोलघुमासः, क्षुल्लकस्य भिन्नमास इति ॥ [भा.४४२६] अहवाजं वा तं वा, पाहुणगं गुरुमनुट्ठिह पावे । भिनं वसभी सुक्कं, भिक्खु लहू खुड्डए गुरुगा। वृ-अथवायंवातंवाप्राघूर्णकमनुत्तिष्ठन् 'गुरु' आचार्यो भिन्नमासंप्राप्नोति, वृषभः 'शक्लमासं' लघुमासमित्यर्थः, भिक्षुश्चतुर्लघुकम्, क्षुल्लकश्चतुर्गुरुकम् । एतेन “पडिलोम बिइएणं" ति पदं व्याख्यातम् ॥अथ किमर्थमयं द्वितीयादेशः प्रवृत्तः ? इत्याह [भा.४४२७] वायण-वावारण-धम्मकहण-सुत्तत्थचिंतणासुंच। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 452