Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् -३-३/९७ षष्टिवर्षजन्मपर्याया इत्यर्थःस्ते 'बालकोऽयम्' इति बुध्या, 'श्रुततश्च' श्रुतमङ्गीकृत्य ये वृद्धास्ते 'अल्पश्रुतोऽयम्' इति कृत्वा, जात्यन्विताः' विशिष्टजातिसम्भूताः 'हीनजात्युद्भवोऽयम्' इति मत्या, 'शिष्यसमृद्धिमन्तः' परिवारसम्पदुपेताः 'अल्पपरिवारोऽयम्' इति बुध्यागुरोः 'अवज्ञाम्' अनभ्युत्थानलक्षणां कुर्वन्ति ।अथैवमवज्ञाकरणानन्तरं गुरुस्तान् स्वगच्छनगराद् नि'हति । ये च बहुपाक्षिकत्वादिभि कारणैर्नियूंहितुंन शक्यन्ते तेषांभोगसंविभागकल्पं सूत्रं श्रुतंनप्रयच्छति। एवं तावत् प्राघुणकमाचार्यमङ्गीकृत्याभ्युत्थाना-ऽनभ्युत्थानयोर्गुण-दोषा उपवर्णिताः । अथ सामान्यतो गच्छमध्यस्थितस्यैवाचार्यस्यानभ्युत्थाने दोषमाह[भा.४४३७] मज्झत्थ पोरिसीए, लेवे पडिलेह आइयण धम्मे।
पयल गिलाणे तह उत्तिमट्ठ सव्वेसि उट्ठाणं ।। वृ-आचार्यमागच्छन्तं दृष्ट्वा गच्छसाधवो मध्यस्थास्तिष्ठन्ति न पुनरभ्युत्तिष्ठन्ति पूर्वोक्तमेव प्रायश्चित्तम् । सूत्रा-ऽर्थपौरुषीं लेपप्रदानं प्रतिलेखनां “आइयणं"ति समुद्देशनं धर्मकथां वा विदधानाः प्रचलायमाना वानाभ्युत्तिष्ठन्ति अत्रापि तदेव' वृषभादिविषयं प्रायश्चित्तम् । ग्लानो वा उत्तमार्थप्रतिपत्रो वा शक्तौ सत्यां यदि नोत्तिष्ठति तदा तस्यापि प्रायश्चित्तम् । यत एवमतः सर्वेषामप्यभ्युत्थानं भवति । इदमत्र हृदयम्-आचार्याणामनभ्युत्थाने सूत्रपौरुषीकरणादीनि कदालम्बनानि नालम्बनीयानि, यथा-ममायमालापकोऽर्धपठितो वर्तते, लेपोवापात्रके नाद्यापि परिपूर्णो दत्तः, प्रतिलेखनादिकं वा सम्प्रति कुर्वाणोऽस्मि, ग्लानो वा कृतभक्तप्रत्याख्यानो वा अहमस्मीति; किन्तु सर्वैरपि सूत्राध्ययनादिव्यापारंपरिहृत्याभ्युत्थातव्यम् । एवं तावदुपाश्रये विधिरभिहितः, अथान्यत्र गृहादौ रथ्यादिषु वा यत्र दृश्यते तत्रायं विधिः[भा.४४३८] दूरागयमुद्रुउं, अभिनिग्गंतुं नमंतिणं सव्वे ।
दंडगहणंच मोत्तुं, दिढे उट्ठाणमन्नत्य ।। वृ-दूराचार्यमागतं दृष्ट्वाअभि-आभिमुख्येन निर्गत्य सर्वेऽपिसाधवः "न"मितिएनमाचार्य 'नमन्ति' शिरसा वन्दन्ते । यदा च गुरव उपाश्रयं प्रविशन्ति तदा दण्डकग्रहणमपि कर्तव्यम् । 'अन्यत्र तु' गृहादौ दृष्टे गुरौ दण्डकग्रहणं मुक्त्वा अभ्युत्थानमेव कर्तव्यम् ॥
एवमभ्युत्थाने के गुणाः ? इत्याह[भा.४४३९] परपक्खे य सपक्खे, होइअगम्मत्तणंच उट्ठाणे ।
सुयपूयणा थिरत्तं, पभावना निजरा चेव ।। वृ-परपक्षः-परपाषण्डिनः स्वपक्षः-पार्श्वस्थादिवर्गस्तयोः 'अगम्यत्वम्' अनभिभवनीयता गुरोरभ्युत्थाने भवति।तथा गुरवोबहुश्रुताभवन्तीतिश्रुतपूजनमपिकृतस्यात्।अन्येषामभ्युत्थानादौ विनये सीदतां स्थिरत्वमनुष्ठितं भवति । प्रभावनाच शासनस्यैवं कृता भवेत्-अहो! शोभनमिदं प्रवचनं यत्रैवंविधो विनयो विधीयते । निर्जरा च कर्मक्षयरूपा विपुला भवति, विनयस्याभ्यन्तरतपोभेदत्वात्, तस्य च निर्जरानिबन्धनतया सुप्रतीत्वात्॥
आह-यः प्रव्रजितः सर्वपापोरतस्तस्य किं नाम विनयेन कार्यम् ? इति उच्यते[भा.४४४०] अकारणा नत्थिह कज्जसिद्धी, न यानुवाएण वदेति तन्ना।
उवायवं कारणसंपउत्तो, कजाणि साहेइ पयत्तवं च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 452