Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ उद्देशकः३, मूलं-९७, [भा. ४४३१] वृ-'आराधितः' केनापि गुणविशेषेण परितोषं प्रापितः सन् राजा व्यक्षरकस्य सपट्टबन्धं राज्यमकार्षीत्, पट्टबन्धनृपतिं तं विहितवानिति भावः । ततस्तं व्यक्षरकराजं राज्यं प्रशासतं 'कुलीनादयो नाद्रियन्ते' 'वयं कुलीनाः, अयं तुहीनकुलोत्नः, आदिशब्दाद् द्वयंप्रधानपुरुषाः, अयंपुनः कर्मकरः' इत्यादिपरिभवबुध्या नाभ्युत्थानादिकमादरंतस्य कुर्वन्ति।ततस्ते तेन राज्ञा 'विनीताः' शिक्षांप्रापिताः, “विनयः शिक्षा-प्रणत्योः" इति वचनात् । कथं शिक्षिताः? इत्याह[भा.४४३२] सव्वस्सं हाऊणं, निजूढा मारिया य विवदंता। भोगेहिं संविभत्ता, अनुकूल अनुव्वणा जे उ॥ वृ-सर्वस्वमपहृत्य ते स्वनगराद् “निजूढा" निष्काशिताः। येचतत्र निष्काश्यमाना विवदन्ते'किमस्माभिरपराद्धम् ? यो यो व्यक्षरो भविष्यति तस्य तस्य किं वयमभ्युत्थानं करिष्यामः?' इत्यादि कलहायन्ते ते विवदमाना मारिताः । ये त तत्र 'अनुकूलाः' अभ्युत्थानादिकारिणः 'अनुल्बणाः' अगर्वितास्ते भोगैः 'संविभक्ताः' राज्यभोगसंविभागस्तेषां कृतः॥ एष दृष्टान्तः, अयमर्थोपनयः[भा.४४३३] अहिराया तित्थयरो, इयरो उ गुरू उ होइ नायव्यो। साहू जहा व दंडिय, पसत्थमपसत्थगा होति ।। वृ-यथा 'अधिराजः' मौलः पृथिवीपति तथा तीर्थकरः । यथा 'इतरः' व्यक्षरकराजः तथा तीर्थकराधिराजेनैवानुज्ञाताचार्यपदपट्टबन्धसहितगणाधिपत्यराज्यः 'गुरु' आचार्योज्ञातव्योभवति। यथा च ते प्रशस्ता-ऽप्रशस्तरूपा दण्डिकास्तथा साधवोऽप्युभयस्वभावा भवन्ति ।। तत्र[भा.४३४] जह ते अनुट्ठिहंता, हियसव्वस्सा उ दुक्खमाभागी। इय नाणे आयरियं, अनुट्ठिहताण वोच्छेदो॥ वृ- यथा ते दण्ड-भट-भोजिकादयो व्यक्षरकनृपतिमनुत्तिष्ठन्तो हृतसर्वस्वा ऐहिकस्य दुःखस्यामागिनः सञाताः 'इति' एवमाचार्यमप्यनुत्तिष्ठतांदुर्विनीतसाधूनां ज्ञाने उपलक्षणत्वाद् दर्शनचारित्रयोश्च व्यवच्छेदो भवति । ततश्चानेकेषां जन्म-जरा-मरणादिदुःखानामाभागिनस्ते सञ्जायन्ते। एषोऽप्रशस्तोपनयः, अथ प्रशस्तोपनयः[भा.४४३५]उट्ठाण-सेज्जा-5ऽसनमाइएहिं, गुरुस्सजे होंति सयाऽनुकूला। नाउं विनीए अह ते गुरू उ, संगिण्हई देइ य तेसि सुत्तं ॥ वृ. उत्थानं-गुरुमागच्छन्तं दृष्ट्वा ऊर्वीभवनम्, शय्या-सम-सुन्दरावकाशे गुरूणां संस्तारकरचनम्, आसनम्-उपवेशनयोग्यनिषद्यादिरचनम्, यद्वा “सेज्जा-ऽऽसणं"ति गुरूणां शय्याया आसनाच्च नीचतरशय्या-ऽऽसनयोराश्रयणम्, आदिशब्दादालिप्रग्रहादिपरिग्रहः । एवमादिभिर्विनयभेदैर्ये शिष्याः सदैव गुरोरनुकूला भवन्ति तान् विनीतान् ज्ञात्वा 'अथ' अनन्तरं गुरु संगृह्णाति’ ‘मयैते सम्यक्पालनीयाः' इत्येवं सङ्ग्रहबुध्या स्वीकरोति सूत्रंचतेषां प्रयच्छति। ततश्च ते इह परत्रच कल्याणपरम्पराभाजनंजायन्ते। अथाप्रशस्तोपनयं विशेषतो भावयन्नाह[भा.४४३६] पज्जाय-जाई-सुततो य वुड्डा, जच्चनिया सीससमिद्धिमंता। कुव्वंतऽवन्नं अह ते गणाओ, निजूहई नो य ददाइ सुत्तं॥ वृ- पर्यायतो ये वृद्धास्ते 'अवमरात्निकोऽयम्' इति बुध्या, जातिमधिकृत्य ये वृद्धाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 452