Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१६
बृहत्कल्प-छेदसूत्रम् - ३-३/९७
द्वितीयं त्रामणके, तृतीयं षाण्मासिकतपश्चिन्तनकायोत्सर्गार्थम्, चतुर्थं प्रत्याख्यानग्रहणार्थमिति । तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र च वृद्धसम्प्रदायः- सज्झाए वंदित्ता पट्ठवेइ, एयं पढमं । पवेयंतस्स बिइयं, पच्छा उद्दिनं समुद्दिनं पढइ, उद्देस समुद्देसवंदनाणमिहेवंतब्भावो । तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो ताहे अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउं पडिक्कमइ, एयं तइयं ।
एवं पूर्वाह्णे सप्त वन्दनानि अपराह्येऽप्येवमेव सप्त भवन्ति तत्र चत्वारि दैवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावादिति सर्घसङ्ख्यया चतुर्दशवन्दनकानि भवन्ति । एतच्चाभक्तार्थिकभङ्गीकृत्योक्तम् । यस्तु भक्तार्थिकस्तस्य भोजनान्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्तीति । एतेषां मध्यादेकतरस्यापि कृतिकर्मणोऽकरणे मासिकं लघुकं प्रायिश्चित्तं भवति । तथा आवश्यं कुर्वन् विपरीतमालापकोच्चारणं करोति, तद्यथादैवसिके आवश्यके 'क्षामयामि क्षमाश्रमण ! रात्रिकं व्यतिक्रमम्' इत्युञ्चरति, रात्रिके वा दैवसिकाभिलापं करोति, एवं पाक्षिकः चातुर्मासिक-सांवत्सरिकेष्वपि प्रतिक्रमणेषु वक्तव्यम्, अत्र सर्वत्राप्यसामाचारीनिष्पन्नं मासलघु । “ऊणऽहिए चेव"त्ति ऊनानि वा एकद्व्यादिभिर्वन्दकैर्हीनानि अधिकानि। वा यथोक्तप्रमाणादतिरिक्तानि दैवसिकादिप्रतिक्रमणेषु वन्दनकानि प्रयच्छतो मासलघु ॥ अथ “वंदनए जानि य पयानि" त्ति पदेन यानि द्व्यवतादीनि पञ्चविंशतिवन्दनकस्यावश्यकपदानि सूचितानि तानि दर्शयति
[भा. ४४७० ] दुओणयं अहाजायं, किइकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥
वृ- अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनम्, द्वे अवनते यस्मिन् तद् द्व्यवनतम् एकं यदा प्रथममेव " इच्छामि खमासमणो ! वंदिउं जावणिजाए निसीहियाए" इत्यभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनरेवमेव द्वितीयप्रवेशे इति २ । 'यथाजातं नाम' यथा प्रमतो जननीजठरान्निर्गतो यथा च श्रमणो जातस्तथैव वन्दनकं दातव्यम् - तत्र रजोहरणमुखवस्त्रिकाचोलपट्टकमातच्या श्रमणः सञ्जातः, रचितकरसम्पुटस्तु योन्या विनिर्गतः, एवम्भूत एव वन्दनकं दत्ते ३ | 'कृतिकर्म' वंन्दनकं "बारसावयं' ति द्वादशावर्त्त भवति-इह प्रथमतः प्रविष्टस्य "अहो कायं, काय, जत्ता भे, जवणि जंच भे" इति सूत्राभिधानगर्भा गुरुचरणन्यस्तहस्तशिरःस्थापनरूपाः षडावर्त्ता भवन्ति, अवग्रहान्निर्गत्य पुनः प्रविष्टस्याप्येवमेव षडिति द्वादशावर्तवन्दनकमुच्यते १५ । चत्वारि शिरांसि उपचारात् शिरोऽवनमनानि यस्मिन् तत् चतुः शिरः -तत्र संफासनमने एगं, खामणानमणे सीसस्स बीयं, एवं बीयपवेसे वि दोन्नि त्ति १९ । तथा त्रयः -मनो- वाक्- काययोगा गुप्ताः- सुप्रणिहिता यस्मिन् तत् त्रिगुप्तम्, इयमत्र भावना-मनसा सम्यक्प्रणिहितो वाचा अस्खलितानि सूत्रपदानि विकथादिनिरोधेनोच्चारयन कायेनावर्त्तान् सम्यक् प्रयुआनो वन्दनं ददाति २२ । द्वौ प्रवेश गुरोरवग्रहादावश्यिक्या निर्गच्छतो यत्र तद् एकनिष्क्रमणम् २५ । एतेषां पञ्चविंशतेरावश्यकानामकरणे प्रत्येकं मासलघु प्रायश्चित्तम् । अथवा “वन्दनके यानि पदानि" इत्यत्र अनाध्तादीनि द्वात्रिंशत्सङ्ख्याकानि दोषपदानि मन्तव्यानि ।। तानि चामूनि[भा. ४४७१] अनाढियं च थद्धं च पविद्धं परिपिंडियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 452