Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ३, मूलं- ९७, [भा. ४४७१]
टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥
वृ- अनाध्तं च स्तब्धं च प्रवृद्धं परिपिण्डितं टोलगति अङ्कुशं चैव तथा कच्छपरिङ्गितमिति प्रथमगाथायां सप्त दोषा- ॥
[भा. ४४७२]
मच्छुव्वत्तं मनसा, य पउट्टं तह य वेइयाबद्धं । भयसा चैव भयंतं, मित्ती - गारव - कारणा ।।
वृ-मत्स्योद्धृतं मनसा प्रद्विष्टं तथा च वेदिकाबद्धं “ भयसा चैव "त्ति भयेनैव "भयंतं” ति भजतो वन्दनमपि भजेत् तथा मैत्रीं गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ दोषाः ॥
[भा. ४४७३]
नियं पडिनियं चेव, रुवं तजियमेव य । सढंच हीलियं चेव, तहा विप्पलिउंचियं ॥
वृ- स्तैन्येन-चौर्येण कृतं वन्दनमपि स्तैन्यं प्रत्यनीकवन्दनं रुष्टवन्दनं तर्जयन् वन्दत इति तर्जितवन्दनं शठवन्दनं हीलितवन्दनं तथा विपरिकुञ्चितमिति तृतीयगाथायां सप्त दोषाः ॥ दिट्ठमदिट्ठे च तहा, सिंगं च कर मोअणं ।
[भा. ४४७४]
आलिट्ठमनालिट्ठे, ऊनं उत्तरचूलियं ॥
वृष्टादृष्टं तथा शृङ्गं करो मोचनम आश्लिष्टा ऽनाश्लिष्टं न्यून उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः ॥
[भा. ४४७५ ]
१७
मूयं च ढड्ढरं चेव, चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्पं पउंजए ।
वृ- मूक ढड्डरं चुडलिकम् 'अपश्चिमं' पर्यन्तवर्ति इति पञ्चमगाथार्थे त्रयो दोषाः । एवं द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत साधुरिति दोषनामोत्कीर्त्तनायां पञ्च गाथाः ॥
इदानीमेतानेव यथाक्रमं व्याचष्टे
[भा. ४४७६ ]
आयरकरणं आढा, तव्विवरीयं अनाढियं होइ । दव्वे भावे थद्धो, चउभंगो दव्वतो भइतो ॥
वृ- आदरः- सम्भ्रमस्तत्करणमाध्तता सा यत्र न भवति तदनाध्तमुच्यते । द्वितीयं दोषमाहस्तब्धस्तावद् द्रव्यतो भावतश्च भवति । अत्र चतुर्भङ्गिका, तद्यथा द्रव्यतः स्तब्धो न भावतः १ भावतः स्तब्धो न द्रव्यतः २ अपरो द्रव्यतो भावतश्च ३ अन्यस्तु न द्रव्यतो नापि भावतः ४ इति । अत्र चरमो भङ्गः शुद्धः । शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु 'भक्तः' विकल्पितः, उदर-पृष्ठ शूल्यव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणिकः स्यादपि स्तब्धो न तु निष्कारणिक इति भावः ।। तृतीयं दोषमाह
[भा. ४४७७]
पविद्धमनुवयारं, जं अप्पितो न जंतितो होति । जत्थ व तत्थ व उज्झति, कतकिच्चो वक्खरं चैव ॥
20 2
Jain Education International
वृ- प्रवृद्धं नाम यद् उपचाररहितम् । एतदेव व्याचष्टे यद् वन्दनकं गुरुभ्यः 'अर्पयन्' ददद् न यन्त्रितो भवति । अयन्त्रितत्वेन यत्र तत्र वा स्थने प्रथमप्रवेशादिलक्षणे असमाप्तमपि वन्दनकमुज्झति ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 452