Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ उद्देशक : ३, मूलं-९७, [भा. ४४४०] वृ-अकारणा कार्यस्य सिद्धिः ‘इह' अस्मिन् जगति नास्ति, यद्यस्य कार्यस्योपादानं कारणं तत् तेन विना न सिध्यतीत्यर्थः, यथा मृत्पिण्डं विना घट इति कारणसद्भावेऽपि 'न च' नैव 'अनुपायेन' उपायाभावेन कार्यं भवतीति 'तज्ज्ञाः' कार्यसिद्धिवेदिनो वदन्ति, यथा मृत्पिण्डसद्भावेऽपि चक्र-चीवरोदकाद्यपायमन्तरेण घटो न सिध्यति । यः पुनरुपायवान् कारणसम्प्रयुक्तः प्रयत्नवांश्च भवति स कार्याणि साधयति, यथा कुम्भकारो मुत्पिण्डमासाद्य चक्रचीवराधुपायसाचिव्यजनितोपष्टम्भः स्वहस्तव्यापारणरूपं प्रयत्नं कुर्वन् घटमिति ॥ आहयद्येवमुपायकारणयुक्तः कार्याणि साधयति ततः प्रस्तुते किमायातम् ? इत्याह[भा.४४४१] धम्मस्स मूलं विनयं वयंति, धम्मो य मूलं खलु सोग्गईए। सा सोग्गई जत्थ अबाहया ऊ, तम्हा निसेव्यो विनयो तदट्ठा ॥ वृ-'धर्मस्य' श्रुत-चारित्ररूपस्य मूलं प्रथममुत्पत्तिकारणं विनयम्' अभ्युत्थानादिरूपंवदन्ति तीर्थकरादय इति गम्यते । स च धर्म ‘खलु' अवधारणे सुगतेः 'मूलं' कारणं मन्तव्यम्, दुर्गतौ प्रपतन्तंप्राणिनं धारयति सुगतौच स्थापयतीतिनिरुक्तिसिद्धत्वात्तस्येतिभावः ।अथसुगतिरिह कीशीगृह्यते? इत्याह-सासुगतिरभिधीयतेयत्र 'अबाधता' क्षुत्पिपासारोग-शोकादीनांशारीरमानसानां बाधानामभावः, सिद्धिरित्यर्थः। यतवंतस्मात् 'तदर्थं' सुगतिनिमत्तं विनयो निषेव्यः। इदमत्र हृदयम्-इह कार्यं तावदव्याबाधसुखलक्षणो मोक्षः, तस्य च कारणं श्रुत-चारित्ररूपः सर्वज्ञभाषितोधर्म, सचगुरोरभ्युत्थान-वन्दनादिविनयलक्षणमुपायमन्तरेण न साधयितुंशक्यते, अतः परम्परया मोक्षकारणमेवायमिति मत्वा तदर्थं विनय आसेवितव्य इति ।। आह-य युक्तं पौरुषी-लेपप्रदानादिकारिणामभ्युत्थानम्, ग्लानोत्तमार्थप्रतिपत्रयोस्तुकिमर्थमभ्युत्थानम्? उच्यते[भा.४४४२] मंगल-सद्धाजननं, विरियायारो न हाविओचेवं। एएहिं कारणेहिं, अतरंत परित्र उट्ठाणं॥ वृ-'अतरन्तः' ग्लानः “परिन्न"त्तिमतप्रत्ययलोपात् 'परिज्ञावान्' अनशनी, एतयोर्गुरूणामभ्युत्थानेमङ्गलं भवति, ततश्च ग्लानस्याचिरादेवप्रागुणीभवनंकृतभक्तप्रत्याख्यानस्यतुनिर्विघ्नमुत्तमार्थसाधनस्यात्।तथा ग्लाने परिज्ञावति वा गुरुमभ्युत्तिष्ठतिशेषाणामप्यभ्युत्थाने श्रद्धाजननं विहितं भवति, यद्येषोऽप्येवं गुरूनभ्युत्तिष्ठति ततोऽस्माभि सुतरामभ्युत्थातव्यम् । अपिच-एवं कुर्वता ग्लानेन परिज्ञावताच वीर्याचारोनहापितोभवति।अत एतैः कारणैरेताभ्यामभ्युत्थातव्यम्। प्रकारान्तरेण प्रायश्चित्तमुपदर्शयन्नाह[भा.४४४३] चंकमणे पासवणे, वीयारे साहु संजई सन्नी। सन्निणि वाइ अमचे, संघे वा रायसहिए वा ।। [भा.४४४] पनगं च भिन्नमासो, मासो लहुगो य होइ गुरुगोय। चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगंच ॥ वृ-इहप्रथमगाथाया द्वितीयगाथायाश्चपदानांयथासङ्खयेन योजना। तद्यथा-आचार्यंचङ्क्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति ‘पञ्चकं' पञ्चरात्रिन्दिवानि प्रायश्चित्तम् । प्रश्रवणभूम्याआगतं नाभ्युत्तिष्ठति भिन्नमासः । “विचारः' संज्ञा तां कृत्वा समागतस्यानभ्युत्थाने मासलघु । अन्यैः साधुभिः समागतस्यानभ्युत्थाने मासगुरु । संयतीभि सार्धमागतस्यानुत्थाने षड्लघु । संज्ञिनः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 452