Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ उद्देशकः३, मूलं-९७, [भा. ४४४८] वृ-'कामम्' अनुमतमिदं यद्एष जीवः ‘एजमानः' स्पन्धमानः ‘आरम्भादिषु' कर्मबन्धकारणेषु वर्तते, ‘स तु' स पुनः परिस्पन्द 'अनर्थं' निष्कारणं 'नेष्टः' नाभिमतः अपि 'बाहोरुत्क्षेपः' बाहूत्क्षेपमात्रोऽपि, किं पुनश्रचङ्क्रमणादिरित्यपिशब्दार्थः, अर्थादापत्रम्-यः सार्थकश्चक्रमणादिव्यापारः स इष्ट एवेति ।। अथ सार्थकोऽपि व्यापारः कथमिष्टः ? इत्यस्यां जिज्ञासायां यथा योगत्रयेऽपि व्यापार्यमाणे दोषा यथा च गुणा भवन्ति तदेतत् प्रतिपादयति[भा.४४४९] मनो य वाया काओ अ, तिविहो जोगसंगहो। ते अजुत्तस्स दोसाय, जुत्तस्स उगुणावहा॥ वृ- मनोयोगो वाग्योगः काययोगश्चेति त्रिविधो योगसङ्गहो भवति, सङ्क्षपतस्त्रिधा योगो भवतीत्यर्थः । ते च' मनो-वाक्-काययोगाः ‘अयुक्तस्य' अनुपयुक्तस्य ‘दोषाय' कर्मबन्धाय भवन्ति, युक्तस्य तु त एव 'गुणावहाः' कर्मनिर्जराकारिणः सम्पद्यन्ते ॥ इदमेव भावयति[भा.४५०] जह गुत्तस्सिरियाई, न होंति दोसा तहेव समियस्स। गुत्तीट्ठिय प्पमायं, रुंभइ समिई सचेट्ठस्स ॥ वृ यथा किल मनो-वाक्-कायगुप्तस्य ईर्यादिप्रत्यया अनुपयुक्तगमना-ऽऽगमनादिक्रियासमुत्थादोषान भवन्ति तथैव ‘समितस्यापि चङ्क्रमणं कुर्वत ईर्यादिप्रत्यया दोषा न भवन्त्येव । किं कारणम् ? इत्याह-यदा किल गुप्तिषु-मनोगुप्तयादिषु स्थितो भवति तदा योऽगुप्तिप्रत्ययः प्रमादस्तं निरुणद्धि, तन्निरोधाच्च तत्प्रत्ययं कर्मापिन बध्नाति । यस्तु समिती स्थितः ससचेष्टस्य यःप्रमादो यश्च तत्प्रत्ययः कर्मबन्दस्तयोनिरोधं विदधाति॥परः प्राह-यो गुप्तः स समितो भवति उतन? इति यो वा समितः स गुप्तो भवति उत न? इति अत्रोच्यते[भा.४४५१] समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि भइअव्वो। कुसलवइमुदीरंतो, जं वइसमितो विगुत्तो वि॥ वृ-इह समितयः प्रवीचाररूपा इष्यन्ते, गुप्तयस्तु प्रवीचारा-ऽप्रवीचारोभयरूपाः। प्रवीचारो नाम-कायिको वाचिको वा व्यापारः। ततो यः समितः' सम्यग्गमन-भाषणादिचेष्टायां प्रवृत्तःस नियमाद् 'गुप्तः' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्तः स समितत्वे 'भक्तव्यः' विकल्पनीयः । तत्र समितः कथं नियमाद् गुप्तः? इत्याह-'कुशलां' निरवद्यादिगुणोपेतां वाचमुदीरयन् 'यद्' यस्माद् वाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति?-यः समयगनुविचिन्त्य निरवद्यां भाषां भाषते स भाषासमितोऽपि वाग्गुप्तोऽपि वाग्गुप्तोऽपि च भवति, गुप्तेः प्रवीचाररूपतयाऽप्यभिधानात्। अतः समितो नियमाद् गुप्त इति । गुप्तः समितत्वे कथं भजनीयः? इत्याह[भा.४५२] जो पुन काय-वतीओ, निरुज्झ कुसलं मणं उदीरेइ। चिट्ठइ एकग्गमणो, सो खलु गुत्तो न समितो उ॥ वृ- यः पुनः काय-वाचौ निरुध्य 'कुशलं' शुभं मन उदीरयन् एकाग्रमना धर्मध्यानाधुपयुक्तचित्तस्तिष्ठति स खलु गुप्त उच्यते, न समितः, समितेः प्रवीचाररूपत्वात् । यस्तु कायवाचौसम्यक्प्रयुक्तेस गुप्तोऽपि समितोऽपिमन्तव्यः ॥अथ समिति-गुप्तीनांपरमवतारंदर्शयन्नाह[भा.४४५३] वाइगसमिई बिइया, तइया पुन मानसा भवे समिई। सेसा उ काइयाओ, मनो उ सव्वासु अविरुद्धो॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 452