Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 7
________________ बृहत्कल्प-छेदसूत्रम् - ३-३/९७ दृष्ट्वाऽभ्युत्तिष्ठति तथा 'नाम' इति सम्भावनायाम्, सम्भावयाम्यहम् - नैष सम्यग् 'धर्मे' श्रुतचारित्रात्मके स्थितः, अन्यता किमेवमेनामभ्युत्तिष्ठति ? अपि च- एवं स्त्रिया अभ्युत्तिष्ठन् दाक्षिण्यवान् भवति, दाक्षिण्यपण्याच्च तस्याः 'वशम्' आयत्ततामुपैति, ततश्च ब्रह्मचर्यविराधनादयो दोषाः । यास्तु कुलिङ्गिन्यः- तापसी - ०परिव्राजिकाप्रभृतयः तास्वभ्युत्थीयमानासु यथाभद्रकादीनां मिथ्यात्वगमनादयो दोषा भवन्ति ॥ अन्यतीर्थिकेषु पुनरिमे दोषाः ४ [भा. ४४१८] ओभावणा पवयणे, कुतित्थ उब्भावणा अबोही य । खिंसिति य तप्पक्खिएहि गिहिसुव्वया बलियं ।। वृ-भौत-भागवत-सौगतादीनामन्यतीर्थिकानामभ्युत्थाने प्रवचनस्य महती अपभ्राजना भवतिअहो ! निसारं प्रवचनममीषाम् यदेवमन्यदर्शनिनामभ्युत्थानं विदधतीति । तदीयस्य च कुतीर्थस्य ‘उद्भावना' प्रभावना भवति-एतदेव दर्शनं शोभनतरं यदेवं जैना अप्येतव्यतिपन्नानभ्युत्तिष्ठन्तीति। " अबोही य" त्ति प्रवचनलाघवप्रत्ययं मिथ्यात्वमोहनीयं कर्मोपचित्य भवोदधौ परिभ्रमन् बोधिलाभं नासादयति । ये च गृहिणः सुव्रताः -शोभनाणुव्रतधारकाः सुश्रावका इत्यर्थः ते 'तत्पाक्षिकैः ' शाक्यादपक्षपातभिरुपासकैः 'बलिकम्' अत्यर्थं खिस्यन्ते - अस्माकमेव दर्शनं सर्वोत्तमम्, भवदीयगुरूणामपि गौरवार्हत्वात् ॥ [भा. ४४१९] एए चैव य दोसा, सविसेसयरऽन्नतित्थगीसुं पि । लाघव अनुज्जियत्तं, तहागयाणं अवन्नो य ॥ वृ- एत एव 'दोषाः ' प्रवचनापभ्राजनादयोऽन्यतीर्थिकीष्वपि भवन्ति, नवरं 'सविशेषतराः ' शङ्कादिभिर्दोषैः समधिकतरा मन्तव्याः । गृहिणामन्यतीर्थिकादीनां चाभ्युत्थाने सामान्यत इमे दोषाः, तद्यथा-'लाघवम्' 'एतेभ्योऽप्ययं हीनः' इत्येवंलक्षणो लघुभाव उपजायते । 'अनूर्जितत्वं' वराकत्वमुपदर्शितं भवति, तथाहि लोको ब्रूयात् - अहो ! अदत्तदाना श्वाना इव वराका अमी, यदेवमाहारादिनिमित्तमविरतकानामपि चाटूनि कुर्वन्ति । तथा तेन यथावस्थितपदार्थोपलम्भकात्मकेन प्रकारेण गतं ज्ञानमेषां ते तथागताः' सद्भूतार्थवेदिनः तीर्थकर - गणधरा इत्यर्थः तेषामवर्णवादो भवति, यथा-नामी सम्यग् मोक्षमार्गं दृष्टवन्त इति ॥ अथ संयतीनामभ्युत्थाने दोषं विशेषतो दर्शयन्नाह [भा.४४२०] पायं तवस्सिणीओ, करेंति किइकम्म मो सुविहियाणं । सुत्तिट्ठइ वतिणिं, भवियव्वं कारणेणेत्थं ॥ वृ- संयतीमभ्युत्तिष्ठन्तं दृष्ट्वा कश्चिदभिनवधर्मा चिन्तयेत् प्रायः 'तपस्विन्यः' संवत्यः सुविहितानां कृतिकर्म कुर्वन्ति, "मो” इति पादपूरणे, एष पुनर्व्रतिनीमुत्तिष्ठति, तद् द्भवितव्यमत्र कारणेनेति । एवं शङ्कायां चतुर्गुरु, निशङ्किते मूलम् । यत एते दोषास्ततो नैषामभ्युत्थानं विधेयम् । अथ येषामभ्युत्थातव्यं तदभ्युत्थानाकरणे प्रायश्चित्तमभिधित्सुराह [भा.४४२१ ] आयरिए अभिसेगे, भिक्खुम्मि तहेव होइ खुड्डे य । गुरुगा लगा हुगो, भिन्ने पडिलोम बिइएणं ॥ वृ- आचार्येऽभिषेके भइक्षौ तथैव क्षुल्लके आचार्यादीन् प्राघुणकान् यथाक्रममनभ्युत्तिष्ठति गुरुका लघुका लघुको भिन्नमासश्चेति प्रायश्चित्तानि । द्वितीयादेशेनेदमेव प्रायश्चित्तं 'प्रतिलोमं' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 452