Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ १० नन्दी-चूलिकासूत्रं तदयुक्तम्, उपादानं हि तत् तस्य यद्विकारेणैव यस्य विकारो, यथा मृद्घटस्य, नच देहविकारेणेव विकार: संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, तनदेहउपादानं संवेदनस्य, उक्तं च "अविकृत्य हियद्वस्तु, यः पदार्थो विकार्यते। उपादानं न तत्तस्य, युक्तं गोगवयादिवत्॥" एतेन यदुच्यते-'मातापितृचैतन्यं सुतचैतन्यस्योपादान'मिति, तदपि प्रतिक्षिप्तवगन्तव्यं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घट:, मातापितृचैतन्यं च चेत्सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत्, तस्माद् यत्किञ्चिदेतत्, तन्न भूतधर्मो भूत-- कार्यं वा चैतन्यम्, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धमतो यस्येदं स यथोक्तलक्षणो जीवः ।। ___ 'योनय' इति युक् मिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्त औदारिकशरीरेण वैक्रियशरीरेण वाऽऽस्विति योनयो-जीवानामेवोत्पत्तिस्थानानि ताश्च सचित्तादिभेदभिन्ना अनेकप्रकाराः, उक्तंच-'सचित्तशीतसंवृत्तत्तेतरमिश्रास्तद्योनयः' इति, जगच्च जीवाश्च योनयश्च जगज्जीवयोनयः तासां विविधम्-अनेकप्रकारमुत्पादाद्यनन्तधात्मकतया जानातीति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह। तथा जगद् गृणाति-यथावस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः, यथावस्थिसकलपदार्थप्रतिपादक इत्यर्थः, एतेन यत्कैश्चित् बहिरर्थं प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यं, तथाहि ते एवमाहुः-प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तयाव्याप्तं, ततो यद्विषय वन्न भवति न तत्प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति चविपयवत् शाब्दज्ञानमिति, नचायमसिद्धो हेतः, यतो द्विविधो विषयः-प्रत्यक्षः परोक्षश्च, तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेनस्फुटाभीनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेक: सतस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकार: सम्भवदशामश्रुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायिस्फुटप्रतिभासंज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद्न प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो य: शाब्दप्रमाणस्यापि विषयो भवेत्, नापि परोक्षः, तस्यापि हिनिश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाङ्कः, अन्यथाऽतिप्रङ्गात्, नच शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावात्, तादात्म्यतदुत्पत्त्यनुपपत्तेः, तथाहि-न बाह्योऽर्थो रूपं शब्दानां नापिशब्दो रूपमर्थानां, तथाप्रतीतेरभावात, तत्कथमेषां तादाम्त्यं? येन व्यावृत्तिकृतव्यवस्थाभेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद्, अपिच-यदि तादात्म्यमेषां भवेत् ततोऽनलाचलक्षुरिकादिशब्दोच्चारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति, तद् न तादात्म्यं, नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः, तथाहि-वस्तुनः किं शब्दस्योत्पत्तिरुत शब्दाद्वस्तुनः?, तत्र वस्तुनः शब्दोत्पत्तावकृतसङ्केतस्यापिपुंसः प्रथमपनसदर्शने तच्छशब्दोच्चारणप्रसङ्गः, शब्दाद्वस्तूत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलाधुत्पतेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन सह नान्तरी www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 265