Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 11
________________ नन्दी-चूलिकासूत्रं यदि इन्द्रियविज्ञानविरहादिति तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं तु कस्मात् न भवति?, अथ मनोविज्ञानं नोत्पादयतीति अचेतनत्वं, तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थंकदेशासिद्धो हेतुः, तदप्यसत्, अचेतनत्वादिति किमुक्तं भवति?-स्वनिमित्तविज्ञान: स्फुरच्चिद्रूपतयाऽनुपलब्धेः, स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरच्चिद्रूपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तम्, केशनखादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रूपा उपलभ्यते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीम:?, आह च "चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम्॥" __ अपि च-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततः तदुच्छेदे मूलत एव न स्यात्, तदुपघाते चोपहतं भवेत्, न च भवति, तस्मात् नायमपि पक्षः क्षोदक्षमः, किञ्च-मनोज्ञानस्य सूक्ष्मार्थमे(वे)तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि-तदेव शास्त्रमहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते तत: सूक्ष्मसूक्ष्मतरार्थाववोध उल्लसति स्मृतिपाटवं चापूर्वमुञ्जम्भते, एवं चैकत्र शास्त्रेऽभ्यासतः सूक्ष्मार्थमे(वे)त्तृत्वशक्तौ स्मृतिपाटवशक्ती चोपजातायामन्येष्वपि शास्त्रान्तरेष्वनायासनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुका: सूक्ष्मार्थमे(वे)त्तृत्वादयो मनोज्ञानस्य विशेपा दृष्टाः, अथकस्यचिदिहजन्माभ्यासव्यतिरेकेणापि दृश्यन्ते, ततोऽवश्यं ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यम्, कारणेन सह कार्यस्यान्थाऽनुपपन्नत्वप्रतिबन्धतोऽदृष्टतत्कारणस्यापितत्कार्यत्वविनिश्चितेः,ततः सिद्धः परलोकवायी जीवः, सिद्धे च तस्मिन् परलोकवायिनि यदि कथञ्चिदुपकारी चाक्षुपादेविज्ञानस्य देहो भवेत् भवतु न कश्चिद् दोषः, क्षयोपशम हेतुतया देहस्यापि कथञ्चिदुपकारित्वाभ्युगमात्, न चैतावता तत्रिवृत्तो सर्वथा तन्निवृत्तिः न हि वढेरासादितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णस्य द्रवता, एवमिहापि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्त्ततां, न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेवविज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत् तर्हि देहस्य भस्मावस्थायां मा भूत्, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मात् न भवति?, प्राणा-पानयोरपि हेतुत्वात् तदभावान्न भवतीति चेत्, न प्राण पानयोर्ज्ञानाहेतुत्वायोगात्, ज्ञानादेव तयोरपि प्रवृत्तेः, तथाहिमन्दौ प्राणापानौ निःस्त्रमिष्यते ततो मन्दौ भवतः दोघौं चेत्तर्हि दीर्घाविति, यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि नेत्थमिच्छावशात् प्राणापानप्रवर्तनं भवेत्, नहि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात् प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदि विज्ञानं ततः प्राणापाननिहर्हासातिशयसम्भवे विज्ञानस्यापि निर्हासातिशयौ स्याताम्, अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयन्, अन्यथा कारणमेव तद्न स्याद्, न च भवत: प्राणापाननिह सातिशयसम्भवे विज्ञानस्यापिनिासातिशयौ, विपर्ययस्यापि भावात्, मरणावस्थायां प्राणापानातिशयसम्भवेऽपि विज्ञानस्य निासदर्शनात्, स्यादेतत्-तदानीं वातपित्तादिभिर्दोषैर्देहस्य विगुणी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 265