Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
________________
___ नन्दी-चूलिकासूत्रं सकलशरीराधिष्ठातृकैकरूपतयाऽनुभवात्, अथसमुदायस्य धर्मः, तदप्यसत्, प्रत्येकमभवात्, प्रत्येकं हि यदसत्तत्समुदायेऽपि न भवति, यथा रेणुषु तैलं, स्यादेतत्-मद्यानेष प्रत्येक मदशक्तिरदृष्टाऽपि समुदाये भवतीति दृश्यते तद्वचैतन्यमपि भविष्यमि को दोषः?, तदयुक्तं, प्रत्येकमपि मद्याङ्गेषु प्रत्येकं मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात्, तथाहि-दृश्यतेमाधुर्यभिक्षुरसे धातकीपुष्पेषुचमनाक विकलतोत्पादकतेत्यादि, न चैवं चैतन्यं सामान्यतो भूतेषुप्रत्येकमुपलभ्यते, ततः कथं समुदाये तद्भवितुमर्हति?, मा प्रापत् सर्वस्य सर्वत्र भावप्रसक्त्याऽतिप्रसङ्गः।
किञ्च-यदि चैतन्यं धर्मत्वेनप्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्मीप्रतिपत्तव्यः, आनुरूप्याभावे जलकाठिन्ययोरिव धर्मिधर्मभावानुपपत्तेः, न च भूतान्यनुरूपोधर्मी, वैलक्षण्यात्. तथाहिचैतन्यं बोधस्वरूपमूर्त च, भूतानि च तद्विलक्षणानि, तत्कथमेतेषां परस्परं धर्मम्मिभाव:? नापिचैतन्यमिदं भूतानां कार्यम्, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्याप्ययोगात्, उक्तंच -
"काठिन्योबोधरूपाणि, भूतान्यध्यक्षसिद्धितः।
चेतना च न तद्पा, सा कथं तत्फलं भवेत् ?।।" अपि च-यदि भूतकार्य चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति?, परिणतिविशेषसद्भावाभावादिति चेत् ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान भवति?, सोऽपि हि भूतमात्रानिमित्तक एव, ततः कथं तस्यापि क्वचित्कदाचिद्भावः? अन्यच्च स किंरूपः परिणतिवशेष इति वाच्यम्, कठिनत्वादिरूप इति चेत्, तथाहि-काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानाततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेष इति, तदप्यसत्, व्यभिचारदर्शनात्, तथाहि-अविशिष्टेऽपिकठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचित्र क्वचिच्च कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते, किञ्च-समानयोनिका अपि विचित्रवर्णसंस्थाना दृश्यन्ते प्राणिनः, तथाहि-गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नमेव, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिका: सर्वेऽप्येकवर्णसंस्थाना भवेयुः, न व भवन्ति, तस्मादात्मान एव तत्तत्कर्मवशात्तथोत्पद्यन्ते इति प्रतिपत्तव्यं ।
स्यादेतत्-तदागच्छन् गच्छन् वा नात्मोपलभ्यते, केवलं देहे सति संवेदनमुपलभ्यते, देहाभावे च भस्मावस्थायां न, तस्मानास्त्यात्मा, किन्तु संवेदनमात्रमेवैकमस्ति, तच्च देहकार्य, देहे एव च समाश्रितं, कुड्य चित्रवत्, नचित्रं कुड्यविरहितमवतिष्ठति, नापि कुड्यन्तरं संक्रामति, नागतं वा कुड्यन्तरात्, किन्तु कुड्य एव उत्पन्नं कुड्य एव च विलीयते, एवं संवेदनमपि, तदप्यसत्, आत्मा हिस्वरूपेणामूर्तः आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तम्
“अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते।
निष्क्रामन् प्रविशन्नात्मा, नाभावोऽनीक्षणादपि॥" तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते एव, तथाहि-कृमेरपिजन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः, उपघातकमुपलभ्य पलायनदर्शनात्, यश्च यद्विषयः प्रतिबन्धः सतद्विषयपरिशीलनाभ्यासपूर्वकः, तथादर्शनात्, नखल्वन्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रह: शरीर
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 265