Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 12
________________ मूलं - १ कृतत्वात् न प्राणापानातिशयसम्भवेऽपि चैतन्यस्यातिशयसम्भवः, अत एव मृतावस्थायामपि न चैतन्यं, देहस्य विगुणीभूतत्वात्, तदसमीचीनतरम्, एवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः, तथाहि--मृतस्य दोपाः समीभवन्ति, समीभवनं च दोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, 'तेषां समत्वमारोग्यं, क्षय, वृद्धी विपर्यये इति वचनात्, आरोग्यलाभात्, स्वदेहस्य पुनरुज्जीवनं भवेत्, अन्यथा देहः कारणमेव न स्यात्, चेतसः तद्विकारभावाभावननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत्, स्यादेतदअयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि देहस्य वैगुण्यमाधाय निवृत्ताः तथापि न तत्कृतस्य वैगुण्यस्य निवृत्ति:, न हि दहनकृतो विकारः काष्ठे दहननिवृत्तौ निवर्त्तमानो दृष्टः, तदयुक्तम्, इह हि किञ्चित् क्वचिदनवर्त्त्यविकारारम्भकं यथा वह्निः काष्ठे, न हि श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्त्तते किञ्चित्पुनः कचित् निवर्त्स्यविकाररम्भकं यथा स एवाग्निः सुवर्णे, तथाहि - अग्निकृता सुवर्णे द्रवताऽग्निनिवृत्तो निरर्त्तते, तथा वाय्वादयो दोषा निवर्त्यविकाररम्भकाः, चिकित्सा-प्रयोगदर्शनाद्, यदि पुनरिवर्त्यविकारारम्भका भवेयुः तर्हि न तद्विकारनिवर्त्तनाय चिकित्सा विधीयते, वैफल्यप्रसङ्गात्, न च वाच्यम्-मरणात् प्राग् दोषा निवर्त्त्यविकाररम्भका मरणकाले त्वनिवर्त्त्यविकारारम्भका इति, एकस्यैकत्रैव विनिवर्त्यविकाररम्भाकत्वायोगात्, न हि एकमेव तत्रैव निवर्त्त्यविकारारम्भकमनिवर्त्त्यविकारारम्भकं च भवितुमर्हति तथाऽदर्शनात् ननु द्विविधो हि व्याधिःसाध्योऽसाध्यश्च, तत्र साध्यो निवर्त्यस्वभावः, तमेवाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्त्तनीयः, न च साध्यासाध्यभेदेन व्याधिद्वैविध्यमप्रतीतम्, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैपम्यकृतः, ततः कथं दोषाणां निवर्त्त्यानिवर्त्त्यविकाराराम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यव्याधेरेवानुपपत्तेः, तथाहि असाध्यता व्याधेः क्वचिदायुः क्षयात्, यतः तस्मिन्नेव व्याधौ समानौषधवैद्यसम्पर्के ऽपि कश्चिन्प्रियते, कश्चित् न क्वचित्पुनः प्रतिकूलकम्र्म्मोदयात्, प्रतिकूलकर्मोदयजनितो हि चित्रादिव्याधिरौषधसहस्त्रैरपि कश्चिदसाध्यां भवति, एतच्च द्विविधमप्यसाध्यत्वं व्याधेः परमेश्वप्रवचनवेदिनामेव मते सङ्गच्छते, न भवतो भूतमात्रतत्त्ववादिनः, कचित्पुनरसाध्यो व्याधिर्दोषकृतविकारनिवर्त्तनार्थमिप्यते न पुनरत्यन्तासतश्चैतन्यस्योत्यादनार्थं, तथाऽनभ्युपगमात्, दोषकृताश्च विकारा मृतावस्थानां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्योपधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः । अपि च- कश्चिद् दोषाणामुपशमेऽप्यकस्मादेव म्रियते कश्चिच्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद् भवन्मते कथं व्यवतिष्ठते ?, आह च ܫ "दोषस्योपशमेऽप्यस्ति, मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते ।।" S अस्माकं तु मतेन यावदायुःकर्म विजृम्भते तावद् दोषैरतिपीडितोऽपि जीवति, आयुः कर्म्मक्षये च दोषाणामविकृतावपि म्रियते तन्न देहमात्रनिमित्तं संवेदनम् । 2 अन्यच्च-देहः कारणं संवेदनस्य सहकारिभूतं भवेदुपादानभूतं वा ?, यदि सहकारिभूर्त तदिष्यत एव देहस्यापि क्षयोपशमहेतुतया कथञ्चिद् विज्ञानहेतुत्वाभ्युपगमात्, अथोपादानभूतं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 265