Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 8
________________ मूलं-१ जगनाहो जागबंधू जयइ जयप्पियामहो भवयं। वृ.इह स्तुतिर्द्विधा-प्रणामरूपाअसाधारणगुणोत्कीर्तनरूपाच, तत्र प्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्यगम्या तथाऽनन्तरमेव वक्ष्यते, असाधारणगुणोत्कीर्तनरूपा च द्विधा-स्वार्थसम्पदभिधानयिनी परार्थसम्पदभिधायिनी च, तत्र स्वार्थसम्पन्नः परार्थ प्रति समर्थो भवतीति प्रथमतः स्वार्थसम्पदमाह-'जयति' इन्द्रियविषयकपायघातिकर्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामश्यं प्रणामार्हः ततो जयतीति, किमुक्तं भवति? -तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह-'जगज्जीवयोनिविज्ञायक:' जगद्धमाधम्र्माकाशपुद्गलास्तिकायरूपं जगद्ज्ञेयं चराचर'मिति वचनात् ‘जीवा' इति जीवन्तिप्राणान् धारयन्तीति जीवाः, क: प्राणान् धारयतीति? चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभिनिर्वर्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाच्चाशेषकर्मांशापगमतः परिनिर्वाता सप्राणान् धारयति स एव चात्मेत्यभिधीयते उक्तं च - ... "यः कर्त्ता कर्मभेदानां, भोक्ता कर्मफलस्य च। संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ।। कथमेतत्सिद्धिरिति चेत्?, उच्यते, प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपचित्तः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्या: काठिन्यत्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयनातिकमात्, तथाहिसा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव?, यदि विलक्षणा तर्हि कथमारट्यते शक्तिरूपेण चैतन्यमस्ति?, न हि घटे विद्यमाने पटरूपेण घटस्तिष्ठितीति वक्तुं शक्यम्, आह च ___ "रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः। चैतन्यादन्यरूपस्य, भावे तद्विद्यते कथम्।।" अथ द्वितीयः पक्षस्तहिचैतन्यमेव सा कथमनुपलम्भः?, आवृतत्त्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं विवक्षितपरिणामाभावः उत परिणामान्तरम् आहोस्विदन्यदेव भूतातिरिक्तं किञ्चित्?, तत्र न तावद्विवक्षितपरिणामाभावः, एकान्ततुच्छतया तस्यावारकत्वायोगात्, अन्यथा तस्याप्यतुच्छरूपतया भावरूपताऽऽपत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत्, 'पृथिव्यादीन्येव भूतानि तत्त्व'मिति वचनात्, पृथिव्यादीनि च भूतानि चैतन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत्?, अथ परिणामान्तरम्, तदप्ययुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवद्व्यञ्जकत्वस्यैवोपपत्ते वारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित्, तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे चत्वार्येत्र पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसङ्घयाव्याघाप्रसङ्गात्, __ अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा?, न तावत्प्रेकमनुपलभ्यात्, नहि प्रतिपरमाणुसंवेदनमुपलभ्यते, यदिचप्रतिपरमाणु भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं विभिन्नास्वभावमिति नैकरूपं भवेत, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमित्येवं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 265