________________
१०
नन्दी-चूलिकासूत्रं तदयुक्तम्, उपादानं हि तत् तस्य यद्विकारेणैव यस्य विकारो, यथा मृद्घटस्य, नच देहविकारेणेव विकार: संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, तनदेहउपादानं संवेदनस्य, उक्तं च
"अविकृत्य हियद्वस्तु, यः पदार्थो विकार्यते।
उपादानं न तत्तस्य, युक्तं गोगवयादिवत्॥" एतेन यदुच्यते-'मातापितृचैतन्यं सुतचैतन्यस्योपादान'मिति, तदपि प्रतिक्षिप्तवगन्तव्यं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घट:, मातापितृचैतन्यं च चेत्सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत्, तस्माद् यत्किञ्चिदेतत्, तन्न भूतधर्मो भूत-- कार्यं वा चैतन्यम्, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धमतो यस्येदं स यथोक्तलक्षणो जीवः ।। ___ 'योनय' इति युक् मिश्रणे' युवन्ति-तैजसकार्मणशरीरवन्तः सन्त औदारिकशरीरेण वैक्रियशरीरेण वाऽऽस्विति योनयो-जीवानामेवोत्पत्तिस्थानानि ताश्च सचित्तादिभेदभिन्ना अनेकप्रकाराः, उक्तंच-'सचित्तशीतसंवृत्तत्तेतरमिश्रास्तद्योनयः' इति, जगच्च जीवाश्च योनयश्च जगज्जीवयोनयः तासां विविधम्-अनेकप्रकारमुत्पादाद्यनन्तधात्मकतया जानातीति विज्ञायको जगज्जीवयोनिविज्ञायकः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह। तथा जगद् गृणाति-यथावस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः, यथावस्थिसकलपदार्थप्रतिपादक इत्यर्थः, एतेन यत्कैश्चित् बहिरर्थं प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यं, तथाहि ते एवमाहुः-प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तयाव्याप्तं, ततो यद्विषय वन्न भवति न तत्प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति चविपयवत् शाब्दज्ञानमिति, नचायमसिद्धो हेतः, यतो द्विविधो विषयः-प्रत्यक्षः परोक्षश्च, तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेनस्फुटाभीनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेक: सतस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकार: सम्भवदशामश्रुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायिस्फुटप्रतिभासंज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद्न प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो य: शाब्दप्रमाणस्यापि विषयो भवेत्, नापि परोक्षः, तस्यापि हिनिश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाङ्कः, अन्यथाऽतिप्रङ्गात्, नच शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावात्, तादात्म्यतदुत्पत्त्यनुपपत्तेः, तथाहि-न बाह्योऽर्थो रूपं शब्दानां नापिशब्दो रूपमर्थानां, तथाप्रतीतेरभावात, तत्कथमेषां तादाम्त्यं? येन व्यावृत्तिकृतव्यवस्थाभेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद्,
अपिच-यदि तादात्म्यमेषां भवेत् ततोऽनलाचलक्षुरिकादिशब्दोच्चारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति, तद् न तादात्म्यं, नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः, तथाहि-वस्तुनः किं शब्दस्योत्पत्तिरुत शब्दाद्वस्तुनः?, तत्र वस्तुनः शब्दोत्पत्तावकृतसङ्केतस्यापिपुंसः प्रथमपनसदर्शने तच्छशब्दोच्चारणप्रसङ्गः, शब्दाद्वस्तूत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलाधुत्पतेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन सह नान्तरी
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only