Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 7
________________ जैनागमवारिधि-जैनधर्मदिवाकर-प्रधानाचार्य-पण्डित-मुनिश्रीमदात्मरामजीमहाराजानाम् नन्दीसूत्रस्याचार चिन्तामणिटीकायां __ सम्मत्तिपत्रम् श्रीमल्लब्धसपाचार्यवर्यघासीलालजित्कृता श्रीमदाचारागसूत्र प्रथमाध्ययनस्याचारचिन्तामणिवृत्तिःसाकल्येनोपयोगितापूर्वकं कर्णकुहरीकृता, वृत्तिरियं न्यायसिद्धान्तोपेता व्याकरणनियमोपनिषद्धा, तथा च प्रासङ्गिकरीत्या अन्यसिद्धान्तसङ्ग्रहोऽप्यस्यां याथातथ्थेनाभासत एव, अपि च निखिला अपि विषयाः सम्यग व्यक्तीकृता लेखकेन, विशेषेण प्रौढविषयाणां स्फुटतया गीर्वाणवाण्यां प्रतिपादनम् अधिकतरं मनोरञ्जकम् । अत : आचार्यमहोदयो धन्यवादमहतीति। आशासे जिज्ञासुमहोदया अस्याः सम्यग् अध्ययनेन जैनागमसिद्धान्तपीयूषं पायं पार्य मनोमोदं विधास्यन्तीति । अस्याः परिशीलनेन चतुर्णामनुयोगानां परिचयं प्राप्तुवन्तु सज्जनाः। अथ आचार्यमहोदया एवमेवान्येषामपि जैनागमानां विशदव्याख्यानेन श्वेताम्बराणां स्थानकवासिनां महोपकृति विधाय यशस्विनो भविष्यन्तीति । पञ्चनन्दप्रातान्तर्वति - लुध्यानामण्डल-स्थानकवास्तव्यो जैनमुनिरुपाध्याय आत्मारामः। विक्रमाब्दः २००२, मार्गशीर्ष शुक्ला प्रतिपत् , शुभमस्तु ॥ શ્રી નન્દી સૂત્ર

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 933